SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १४४ पार्श्वाभ्युदयकाव्यं इतोऽवेष्टितानि मोच्चैस्तत्र स्तनितनिनदानद्रिकुञ्जे तथास्त्वमैषां त्वद्भूद्भयमसुहरं शौर्यदर्पोद्धुराणाम् । ये संरम्भोत्पतनरभसारखाङ्गभङ्गाय तस्मिन् मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् ॥ ६३ ॥ << (6 मोच्चैरिति ॥ तस्मिन् हिमवति । संरम्भोत्पतनरभसाः संरम्भः कोपः “ संरम्भः सम्भ्रमे कोपे " इति शब्दार्णवे । तेन उत्पतने उच्चलने रभसो वेगो येषां ते तथोक्ताः । " रभसो वेगहर्षयोः " इत्यमरः । ये शरभाः अष्टापदमृगाः । शरभोऽष्टापदे मृगान्तरे " इति विश्वः । स्वाङ्गभङ्गाय स्वेषां शरीरात्रमर्दनाय । मुक्ताध्वानं मुक्तोध्वा मार्गो येन तम् । भवन्तम् त्वाम् । सपदि शीघ्रम् । लङ्घयेयुः उल्लङ्घनं कुर्युः । सम्भावनायां लिङ् । शौर्यदर्पोद्धराणां वीर्यगर्यो - त्तानाम् । एषां शरभमृगाणाम् । त्वत् भवतः सकाशात् । असुहरणं प्राणहरणम् । “ पुंसि भूयसवः प्राणाः” इत्यमरः । भयं भीतिम् । मा भूत् न भवतु । तस्मात् तत्र तन्नगे । अद्रिकुञ्ज पर्वतलताखण्डे । त्वं भवान् । स्तनितनिनदान् गर्जितध्वनीन् । " शब्दे निनादनिनदध्वनिध्वानरवस्वनाः इत्यमरः । उच्चैः अधिकम् । मा तथाः माकृथाः । “ तनूङ् विस्तारे " लुङात्मनेपदम् । इति सेर्वा लुक् । “ हन्मन्यम्" इति न लुक् । “ लुङ्लुङि ” इत्यडागमनिषेधः ॥ ६३ ॥ ,, 66 55 तन्भ्यस्थास्थः यद्यप्येते स्तनितरभसादुत्पतेयुर्भवन्तं तैर्यग्योना भृशमपधियः स्वाङ्गभङ्गैकनिष्ठाः । तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् केषां न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ६४ ॥ ५६ ॥ यदीति ॥ यद्यपि यदा कदाचित् । तैर्यग्योनाः तिर्यग्योनि
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy