________________
सटीकम् ।
मरकतमयः । “ गारुत्मतं मरकतम्" इत्यमरः । मरकतमयश्चासौ स्तम्भश्च तथोक्तस्तस्य लक्ष्मी शोभा हरितवर्णकान्तिमित्यर्थः ॥ वहन्या वहतीति वहन्ती । “सलवृत्स्यलटौ” इति शतृप्रत्ययः । " शप्स्यादिनर्मनृदुगिदंचोस्वआदेः” इति । तया बिभ्रत्येति भावः ॥ योगैकाग्र्यस्तिमिततरया एकाग्रस्य भावः ऐकाग्र्यमनन्यवृत्तिता। योगस्य ध्यानस्यैकाग्र्यं तथोक्तम् । प्रकृष्टा स्तिमिता स्तिमिततरा। " स्तिमितोऽचञ्चले क्लिन्ने” इति विश्वः । योगैकाग्येण स्तिमिततरा तथोक्ता । “ योगः सन्नहनोपायच्यानसङ्गतियुक्तिषु । एकतानोऽनन्यवृत्तिरेकाग्र्यैकायनावपि " इत्युभयत्राप्यमरः । तया ध्यानैकतानतास्थिरतरयेति यावत् ॥ श्रीमन्मूर्त्या पुण्यवतः पुरुषान् श्रयतीतिश्री: लक्ष्मीः श्रीरस्यास्तीति श्रीमती । “ अस्त्यर्थे मतुः”। 'नृदुग्' इति । वज्रवृषभनाराचसंहननसमचतुरस्रसंस्थानत्वसाष्टशतमहालक्षणलक्षितत्वादिमहिमावतीति भावः । श्रीमती चासौ मूर्तिश्च तथोक्ता । " स्त्रियां मूर्तिस्तनुस्तनूः ” इत्यमरः । "मानिरुयैकार्थयोख्यन्यतोनुः” इति पुंभावः । तया परमौदारिकदिव्यदेहेन । तस्थिवांसम् तस्थाविति तस्थिवान् । “लिटः कसुकानौ” इति कसुः । “ उगिदचो वेधादेः” इति नम् । तस्थिवन्तमित्यर्थः ।। पार्श्व पार्श्वनाथाभिधानं त्रयोविंशतितमं तीर्थकरपरमदेवम् ॥ नभसि आकाशे । “नभोन्तरिक्षम्" इत्यमरः ।। विहरन् विहरतीति विहरन् । “ शतुरुगिदचः” इति नम् । स्वैरविहारीति भावः ॥ कान्ताविरहगुरुणा कान्ताया वनिताया जातो विरहो विप्रयोगः कान्ताविरहः । “ मयूरव्यंसकादयः” इति समासः । तेन युवतिविप्रलम्भेन । गुरुणा महद्भूतेन । “ गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे” इति शब्दार्णवः ॥बद्धवैरेण बध्यते स्म बद्धम् तच्च तद्वैरं चेति कसः। जैनेन्द्रव्याकरणपरिभाषायां कस इति सञ्ज्ञा कर्मधारयस्य। " वैरं विरोधः” इत्यमरः । तेन। पुरानुबद्धविद्वेषेण ॥ दग्धः दह्यते