SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १२९ 66 66 "" 66 णाम् । वल्ली तु व्रततिर्लता" इत्यमरः । मुक्तधारं मुक्ताधारा जलसम्पातो यस्मिन्कर्मणि तत् । प्रवर्षन् दृष्टिं वितन्वन् । जातहार्दः हृदयस्य भावः हार्दम् हृदयपुरुषादसमान इत्यण् । हृदयस्य हृद्यानसः " इति हृदादेशश्च । " प्रेमा ना प्रियता हार्द प्रेम स्नेहः ” इत्यमरः । जातं हार्द यस्य सः तथोक्तः सन् । ततः तत्प्रदेशात् । पक्ष्मोत्क्षेपात् पक्ष्माणि नेत्रलोमानि " पक्ष्मसूत्राणि सूत्रांशे किञ्जल्के नेत्रलोमनि ” इति शाश्वतः । तेषामुत्क्षेपात् उन्नमनाद्धेतोः। उपरिविलसत्कृष्णसारप्रमाणाम् । कृष्णाश्च ताः साराश्च कृष्णसाराः नीलशबलाः । “ वर्णैः वर्णः " इति समासः । " कृष्णरक्तसितः सारः ” इति यादवः । उपरिविलसन्त्यः कृष्णसाराः प्रभास्तासाम् । सारशब्दादेव सिद्धे काष्ये पुनः कृष्णशब्दोपादानं कार्ण्यप्राधान्यार्थम् । मानात् प्रमाणात् । "मानः स्त्रीणां कोपभेदे गर्विचित्तोन्नतावपि " " मानं प्रमाणे प्रस्थानाम् " इति भास्करः । पक्ष्मोत्क्षेपणादुत्थितनेत्रकान्तीनाम् । उत्सर्पणापसर्पणप्रमितकालादित्यर्थः । लघु शीघ्रम् । सीतापूर सीतानदीप्रवाहं । व्रज गच्छ ॥ ४२ ॥ गच्छन्मार्गे प्रियमुपहरेः प्राणनाथोपयानप्रत्याश्वासाद्वियति सदृशं कृष्णसारोदराणाम् । लक्षीकुर्वन्पथिकवनितालोचनोल्लासकानां कुन्दक्षेपानुगमधुकर श्रीमुषामात्मविम्बम् ॥ ४३ ॥ I 66 गच्छन्निति | वियति व्योम्नि । मार्गे पथि । गच्छन् प्रयान् । कृष्णसारोदराणां कृष्णसारस्येव मृगविशेषस्यैव उदरं यासां तासाकृष्णसाररुरुन्यङ्कुरङ्कुशम्बररोहिषाः " इत्यमरः । तलोदरीणामित्यर्थः । सुदृशां शोभने दृशौ यासां तासां कान्तानाम् । “दृग्दृष्टिः” इत्यमरः । प्राणनाथोपयान प्रत्याश्वासात् प्राणनाथस्य भर्तुः उपयानमागमनं तस्य प्रत्याश्वासो विश्वासः तस्मात् । प्रियं प्रीतिक म् ९
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy