SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सटीकम् । १२१ न्दाभिधानं कंचिद्देवविशेषम् । भवान् त्वम् । व्योमगङ्गाजलानैः आकाशगङ्गानद्याः जलेनाद्रैः । पुष्पासारैः कुसुमसम्पातैः । “धारासम्पात आसारः ” इत्यमरः । पुष्पमेघीकृतात्मा पुष्पाणां मेघस्तथोक्तः पुष्पमेघीकृतः आत्मा स्वरूपं यस्य तथोक्तः सन् । नपयतु अभिषिंचतु ॥ ३१ ॥ पूज्यं देवैर्जिनपतिमजं पूजयन्तं सदैनं ___ दृष्ट्वा पूतं त्वमपि भवता देववृन्दे दिवाय्यम् । रक्षाहेतोर्नवशशिभृता वासवीनां चमूना मत्यादित्यं हुतवहमुखे सम्भृतं तद्धि तेजः ॥ ३२ ॥४५ ॥ पूज्यमिति ॥ देवैः दिविजैः । पूज्यम् अय॑म् । अजं न जायत इत्यजः जन्मरहितस्तम् । उपलक्षणादन्तकादिरहितत्वमनुमीयते । जिनपतिम् अनेकभवगहनविषमव्यसनप्रापणहेतून् दुर्जयकर्मठकमारातीन् जयन्तीति जिनाः प्रमत्तादिगुणस्थानवर्तिनः एकदेसजिनास्तेषां पतिस्तम् । अर्हदीश्वरम् । सदा सर्वस्मिन्काले । पूजयन्तम् । पूतं तत्पूजनादिव पवित्रम् । “ पूतं पवित्रं मेध्यं च” इत्यमरः । एतं स्कन्दम् । त्वमपि दृष्ट्वा अवलोक्य । नवशशिभृता नवं नूतनं शशिनं बिभर्ति अथवा शशिनं विभौति शशिभृत् सोमदिक्पालः नवः शशिभृत् यस्याः सा तथोक्ता तया । दिवा आकाशेन अथवा स्वर्गेण । "द्योदिवौ द्वे स्त्रियामभ्रम्” “द्योदिवौ द्वे स्त्रियां क्लीबम्" इत्युभयत्राप्यमरः । वासवीनां वासवस्येन्द्रस्येमा वासव्यः “प्राग्जितादण्" तासां शक्रसम्बन्धिनीनाम् । “वासवो वृत्रहा वृषा" इत्यमरः । चमूनां सेनानाम् । रक्षाहेतोः रक्षाया हेतुः तस्मात् । पालनार्थमित्यर्थः । हुतवहमुखे हुतं वहतीति हुतवहः “ण्वुल्बल्लिहादेभ्यः” इत्यच् । तस्य वह्नमुखे अग्निमुखे । अथवा अग्नीन्द्रमुखे । सम्भृतं सश्चितम् । अत्यादित्यम् आदित्यमतिक्रान्तम् आ
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy