SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ज Bergery श्रीपरमात्मने नमः ॥ अथ पार्श्वाभ्युदयकाव्यं सटीकम् । टीकाकारस्य मङ्गलाचरणादि । श्रियं विदध्याद्विमां सतां स श्रीपार्श्वनाथो नतसेन्द्रनाथः । यहमावेष्ट्य रराज भोगी क्षणप्रभेवासितनीरवाहे ॥ १ ॥ जिनसेनमुनीशेन कृतस्य कविवेधसा । पार्श्वाऽभ्युदयकाव्यस्य टीकां वक्ष्ये स्वशक्तितः ॥ २ ॥ नामूलमाश्रयनीषन्नापि प्रस्तुतमुत्सृजन् । सर्वमन्वयरूपेण विवृणोमि मृदूक्तिभिः ॥ ३॥ अत्र कथावतारः कथ्यते— 1 इहैव भरतक्षेत्रे सुरम्यविषये पौदनपुरे अरविन्दनृपतिः भुवं पूर्व पालयति स्म । तदा विश्वभूतिनाम्नो द्विजन्मनोऽनुदयश्च तनयौ कमठमरुभूतिसञ्ज्ञकौ तद्भूपतेर्मत्रिपदं प्राप्तौ । तयोः क्रमेण वरुणा वसुन्धरा च भार्ये बभूवतुः । तयोः कनीयान् मरुभूतिः कदाचित् वज्रवीर्यरिपुराजविजयाय निजस्वामिनारविन्दभूपेनामा जगाम । तदा लब्धावसरो दुराचारो ज्यायान् कमठः स्वभार्थ्यावरुणामुखेन वसुन्धरां भ्रातृपत्नीमङ्गीकारयामास किल । राजा विपक्षविजयाऽनन्तरं स्वपुरागमने तद्दुर्वृत्तिं ज्ञात्वा भ्रातृपत्नीमितस्य का वाज्ञेति १ अमा सहेत्यर्थः ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy