________________
११६
पार्वाभ्युदयकाव्यं ब्दार्णवे। तस्याः कान्तायाः । कमलवदनात् कमलं स्वकुसुममेव वदनं मुखं तस्मात् । प्रालेयास्र प्रालेयमेव अखें नेत्राम्बु । “ रोदनं चास्रम्" इत्यमरः । हर्तुम् अपनयनाय । प्रत्यावृत्तः प्रत्यागतः । भानोदेशान्तरागमनान्नलिन्याः खण्डितत्वमिति भावः । त्वयि भवति । कररुधि करानंशून् हस्तान्वा रुणद्धि इति कररुध् विप् । तस्मिन् कररुधि करनिवारके सति । “ बलिहस्तांशवः कराः” इत्यमरः । अनल्पाऽभ्यसूयः अधिकद्वेषः । स्यात् भवेत् ॥ २४ ॥ गम्भीरेति त्वमपि सुभगां तां धुनी मावमंस्था
गत्वा तस्या रसमनुभवत्वय्यतिस्वच्छवृत्तेः। गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने
छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् ॥ २५ ॥ गम्भीरेति ॥ गम्भीरायाः सरितः गम्भीरानामतटिन्याः । उदात्तनायिकायाश्चेति ध्वन्यते । प्रसन्ने अनुरक्तत्वान्मलशून्ये । चेतसीव मनसीव । प्रसन्ने निर्मले । पयसि उदके । प्रकृतिसुभगः प्रकृत्या स्वभावेन सुभगः सुन्दरः । “ सुन्दरेऽधिकभाग्यांशे उदिते तटवासरे । तुरीयांशे श्रीमति च सुभगः” इति शब्दार्णवे । ते तव छायात्मापि छायारूप आत्मा तथोक्तः सोऽपि । बिम्ब शरीरं च । प्रवेशम् । लप्स्यते प्राप्स्यति । साक्षात्प्रवेशमनिच्छोरपि । छायाद्वारा वा तद्रसानुप्रवेशस्यावश्यं भावित्वादित्याशयः । त्वमपि भवानपि । सुभगां मनोहराम् । तां धुनीम् गम्भीराख्यां नदीम् । गत्वा प्राप्य । गम्भीरेति निम्नवतीति गाम्भीर्यगुणवतीति वा । मावमंस्थाः अवज्ञा मा कुरु । त्वयि भवति । अतिस्वच्छवृत्तेः अतिस्वच्छा निर्मला वृत्तिराचरणम् अम्भसां भ्रमो वा यस्यास्तस्याः । तस्याः गम्भीरायाः । रसम् उदकम् । शृङ्गारादिरसं वा । अनुभव अनुभवेः ॥ २५ ॥