________________
सटीकम् । चितां स्वसामर्थ्यकृताम् । “ शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः " इत्यमरः । चित्रां नानारत्नविशिष्टाम् । वृत्तिं वर्तनम् । वा अथवा । शैखिनी शिखिनो मयूरस्येयं शैखिनी ताम् । मनोज्ञां मनोहराम् । कण्ठच्छायां ग्रीवाद्युतिम् । केवलनीलकान्तिमित्यर्थः। खवपुषि निजशरीरे । वहन् धरन् । साधुवादं प्रेक्षकजनश्लाघनोक्तिम् । “ जनोदाहरणं कीर्ति साधुवादं यशो विदुः” इति धनजयः। मास्मयन् अकुत्सयन् । पशुपतेः ईशानदिक्पतेः रुद्रस्य । नृत्तारम्भे जिनेन्द्रदर्शनान्तरकृते आनन्दनर्तनप्रारम्भे । आर्द्रनागाजिनेच्छाम् आर्द्र शोणिता यन्नागाजिनं गजचर्म । “अजिनं चर्म कृत्तिः स्त्री" इत्यमरः । तत्रेच्छां काङ्खाम् । हर निवर्त्तय मोचयेत्यर्थः । तच्चर्मसदृशस्सन् तस्य स्थाने त्वमेव भवेति तात्पर्यम् ॥ १५ ॥ नाव्यं तन्वन्सुरुचिरतनुर्नाटय व्योमरङ्गे
तारापुष्पप्रकररुचिरे सौम्यविद्युन्नटी ताम् । नायं रौद्रो मृदुरिति चिरं साधुवादैः प्रियान्ते
शांतोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ १६ ॥ ३८ ॥ नाट्यमिति ॥ भवान्या भवस्य पत्न्या । “ वरुणेन्द्रभव-" इत्यादिना ङी आन्चागमः। अयम् एषः । रौद्रः रुद्रसम्बन्धः । अथवा भयङ्करः । न न भवति । किन्तु । मृदुरिति मृदुल इति । " कोमलं मृदुलं मृदु” इत्यमरः । चिरं दीर्घकालम् । साधुवादः श्लाघोक्तिभिः । प्रियान्ते प्रियस्येश्वरस्य दिगिन्द्रस्य अन्ते समीपे । शान्तोद्वेगस्तिमितनयनं शान्तः उद्वेगो गजाजिनदर्शनजं भयं ययोस्ते अत एव स्तिमिते निश्चिते नयने यस्मिन्कर्मणि तत् । " उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि ” इति शब्दार्णवे । भक्तिः पूज्यष्वनुरागः दृष्टा भक्तिर्यस्य सः । सुरुचिरतनुः सुरुचिरा मनोहरा तनुर्यस्यसः तथोक्तः सन् । तारापुष्पप्रकररुचिरे तारा एव पुष्पाणि