SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ७ गाथासूत्राणि सूत्राणि चूर्णिसूत्रं तु वार्तिकम् । टीका श्रीवीरसेनीयाऽशेषा पद्धतिपञ्चिका ॥ श्रीवीरप्रभुभाषितार्थघटना निर्लोडितान्यागम न्याया श्रीजिनसेनसन्मुनिवरैरादेशितार्थस्थितिः । टीका श्रीजयचिह्नितोरुधवला सूत्रार्थसंबोधिनी स्थेयादारविचन्द्रमुज्ज्वलतमा श्रीपालसम्पादिता ॥ पञ्चोत्तरसप्तशततमे शकाब्दे (७०५) प्रथमकृष्णराजस्य पुत्रे श्रीवल्लभेऽमोघवर्षस्य पितामहे च धरां पालयति सत्ययं श्रीजिनसेनाचार्यः सर्वतः प्रथमं जैनहरिवंशपुराण मारचयामास । एष एव द्वितीयग्रन्थं पार्श्वभ्युदयनामकं षट्त्रिंशदुत्तरसप्तशततमे ( ७३६ ) शकाब्दे निर्ममे । अन्यच्च श्रीआदिपुराणस्य स्वकृतेः पञ्चविंशतिसर्गानेवैष महाकविर्निर्मातुं प्रबभूव । ततोस्य गुणाकरः प्रधानशिष्यः श्रीगुणभद्रसूरिः सम्पूरयामासैनं ग्रन्थराजम् । धारवाडप्रान्तस्य वङ्कापुरे नगरे चतुर्विंशत्यधिकाष्टशततमे ( ८२४ ) शकाब्दे आद्यस्यामोघवर्षस्य पुत्रे शासति महीमनेनैव गुणभद्रकवीन्द्रेण उत्तरपुराणं रचितम् । योगिराट्र्पण्डिताचार्येण महिसोरान्तर्गतश्रवणवेलगुलनिवासिना जैनधर्मगुरुणा पार्श्वाभ्युदयस्य टीकाविधाने मल्लिनाथकृता मेघदूतटीकाऽनुचक्रे । अत्र टीकायां शाकटायनव्याकरणस्य नानार्थरत्नमालायाश्चातितरामुल्लेखः कृतः । इयं रत्नमाला इरुग्दण्डनाथेन विहितास्ति यो जैनधर्ममनुपालयन्नैकविंशत्यधिकत्रयोदशशततमे ( १३२१) शकाब्दे विजयनगर राज्यमनुशासतो हरिहर महाराजस्याश्रिती जातः । अत एव पार्श्वाभ्युदयस्य टीकाकारोपि १३२१तमाच्छकाब्दात्पश्चादेव संबभूवेति मन्तव्यम् | जिनसेनस्य समकालीनः कालिदास इति टीकावचनं नोपपद्यते यतो जैनकविना श्रीरविकीर्तिना षट्पञ्चाशदुत्तरपञ्चशततमे ( ५५६ ) शकाब्दे स्वकीय शिलालेखे कालिदासोयुल्लिखितः । स च रविकीर्तिर्द्वितीयेन चालुक्यवंशोद्भवपुलिकेशीनाममहाराजेन लब्धसहायो जातः । इति । इयं प्रस्तावना पुण्यपत्तनस्थदक्षिणकालेजस्य भूतपूर्वप्रोफेसर पं. काशीनाथ बापूजी पाठक महाशयैः कृपां विधाय लिखिता इति चिराय तेषां वयं कृतज्ञाः स्मः । निवेदक – पन्नालाल बाकलीवाल ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy