________________
सटीकम् ।
९५ यस्यामिति ॥ यस्याम् उज्जयिन्याम् । अवनिपपथाः राजमार्गाः । समासत्वादृक्पूः पथ्यपोदित्यदन्तत्वम् । युगान्ते कालावसाने । " यानाद्यङ्गे युगः पुंसि युगं युग्मे कृतादिषु” इत्यमरः । पीततोयाः पीतं तोयं येषां ते शुष्कजला इत्यर्थः । जलधयः जलानि धीयन्ते येष्विति जलधयः समुद्राः । उदग्रान् उच्छ्रितान् । “ उच्चप्रांशून्नतो दग्रोच्छ्रितास्तुङ्गे” इत्यमरः । शूर्पोन्मेयान शूपैः प्रस्फोटनैः उन्मातुं योग्याः उन्मेयास्तान प्रमाणार्हान् । “ प्रस्फोटनं शूर्पमस्त्री" इत्यमरः । एकादिगणनया सङ्ख्यातुमशक्यानित्यर्थः । रत्नराशीन् . मणिपुजान् । “ पुजराशी तूत्करः ” इत्यमरः । तारान् शुद्धान् । “ तारो मुक्तादिसंशुद्धौ तरले शुद्धमौक्तिके " इति विश्वः । तरलघुटिकान् तरला घुटिका येषां तान् मध्यमणिभूतमहारत्नयुतान्। "तरलो हारमध्यगः” इत्यमरः । “पिण्डे मणौ महारत्ने घुटिकाबद्धवारणे” इति शब्दार्णवे । हारांन मुक्तावलीन् । कोटिशः अनेकशः। " कोटिः प्रकर्षचापाग्रसङ्खयापक्षान्तरेषु” इति भास्करः । शङ्खशुक्तीः शङ्खाश्च शुक्तयश्च तथोक्तास्ताः । उन्मयूखप्ररोहान् उद्गतकिरणाङ्कुरान् । शष्पश्यामान् शष्पवच्छयामवर्णान् । “ शष्पं बालतृणं घासः ” इत्यमरः । बिभ्रति धारयन्ति ॥ ११५ ॥
भूयो नानाभरणरचनायोग्यरत्नप्रवेकाञ्
ज्योतिर्लेखारचितरुचिमच्छक्रचापानुकारान् । दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान्
संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥११६॥३३॥ भूय इति ॥ यस्यां विशालायाम् । भूयः पुनः । विपणिरचितान विपणिषु पण्यवीथिकासु रचितान् प्रसारितान् । “ विपणिः पण्यवीथिका" इत्यमरः । ज्योतिर्लेखारचितरुचिमच्छकचापानुकारान् ज्योतिर्लेखारचितं च तत् शक्रचापं च तथोक्तं तदनुकुर्वन्तीति तथो