SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ सटीकम् | सतीति । पथि मार्गे । बहुविधे अनेकप्रकारके । एक वैशि रीत्या । संविधानानुषङ्गे अनुषञ्जनमनुषङ्गः सम्पर्कः संविधानस्व कार्यान्तरस्य अनुषङ्गस्तस्मिन् । सत्यपि तथापि । मुख्यस्वार्थप्रतिहति भयात् प्रधानभूतस्वप्रयोजनभङ्गभीतेः । " अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु ” इत्यमरः । अध्वशेषम् अवशिष्टमार्गम् । आशु शीघ्रम् । गत्वा । उदयनकथाकोविदग्रामवृद्धान् विन्दतीति विदाः " ज्ञाकृगृप्रीगुपान्त्यात्कः " इति कप्रत्ययः । ओकसो वेद्यस्थानस्य विदा : कोविदाः “पृषोदरादित्वादोकारो लुप्तः साधुः । "" उदयनस्य वत्सराजस्य कथानां वासवदत्तापहरणाद्युपाख्यानानां कोविदाः परिज्ञानिनः ग्रामेषु ये वृद्धाः दीर्घवयस्काः तथोक्ताः उदयनकथाकोविदाः ग्रामवृद्धाः येषु तान् । अवन्तीन् अवन्तीनामजनपदान् । प्राप्य गत्वा । पूर्वोद्दिष्टां प्रागुक्ताम् । श्रीविशालां सम्पद्विशालाम् । विशालां उज्जयिनीं पुरीम् । “ विशालोज्जयिनी समा ” इत्यभिधानात् । उपसर व्रज ॥ १०९ ॥ व्यावर्ण्यालं भुवनमहितां तां पुरीमुत्तमर्द्धि लक्ष्म्याः शश्वन्निवसनभुवं सम्पदामेकसूतिम् । स्वल्पीभूते सुचरितफले खर्गिणां गांगतानां शेषैः पुण्यैः कृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ११०॥३०॥ व्यावर्ण्येति ॥ स्वर्गिणां देवानाम् । सुचरितफले सच्चरितफले स्वर्गोपभोगलक्षणे । स्वल्पीभूते अल्पे सतीत्यर्थः । गां गतानाम् इलामितानाम् । पुनरपि भूलोकभाजामित्यर्थः । " गौरिला कुम्भिनी क्षमा " इत्यमरः । शेषैः स्वर्गोपभोगावशिष्टैः । पुण्यैः सुकृतैः । कृतं विहितम् । कान्तिमत् कान्तिरस्यास्तीति कान्तिमत् सारभूतमित्यर्थः । एकं मुख्यम् । “ एके मुख्यान्यकेवलाः ” इत्य १ हृतमिव दिव इति पाठान्तरम् ।
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy