________________
नाऽभूत् स्वरूपभृत्तस्य, निवर्तनौषधं विना । दुःखेनोत्फालवान् व्योमोत्पपाताऽधः पपात च ॥४५।। चिन्तयामास चित्ते स्वे, मृगो दैवहतः स तु । धिग् धिग् कर्मपरीणामः, संवृत्तः कीदृगत्र मे ? ॥४६।। मद्दुष्कर्मप्रभावेण, नवोढा सा गरुत्मता । कुत्राऽपि हृत्वा नीतैव, किं जीवति ? मृताऽथ वा ? ॥४७॥ तस्याः प्रवृत्तिमानेतुं, चलिते मयि मत्सरात् । चन्द्रकान्ता कुलीनाऽपि, कूटमौषधजं व्यधात् ॥४८॥ मानुषत्वादहं भ्रष्टो, दुष्टकर्मा करोमि किम् ? । पशुत्वात् पशुमृत्युमें, दत्तो दैवेन कुप्यता ॥४९।। यतः- अस्ति बुद्धिः परेषां हि, कोपव्यावर्त्तने क्वचित् । शक्रोऽपि कुपितं कर्म, नैव सान्त्वयितुं पटुः ॥५०॥ इति चिन्ताऽऽतुरो यावदास्ते स स्तम्भितो नु किम् ? । तावद्व्याधः कृताऽबाधो, विव्याधागत्य तं शरैः ॥५१॥ लग्नात् प्रहाराव्यथितोऽप्यातङ्कजनितत्वरः । स काञ्चिद्दिशमुद्दिश्य, ननाश फालवान् मृगः ॥५२॥ ययौ च पर्वते क्वाऽपि, भ्रान्तदृक् खिन्नमानसः । पपौ च स पयो नाऽऽदत्, क्षुधितोऽपि तृणानि तु ॥५३॥ इतश्च काष्ठताक्ष्योऽसौ, निम्नेन नभसा व्रजन् । अभ्रंलिहमहाकूटे, तस्मिन्नेव नगे क्वचित् ॥५४।। आस्फ[स्फा]ल्य भग्नः परितो, नवोढा पतिताऽथ सा । सर्वाङ्गीणव्यथाजातमूर्छाऽस्थादवनौ क्षणम् ॥५५॥ मूर्छाऽन्ते सा समुत्थाय, विललाप भयाऽकुला । हा ! मातरं ! पितः ! क्वाऽहं, दैवेन निहिता क्षणात् ? ॥५६।।
३५०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।