SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ निजशक्त्या कुमारं तं, कृत्वाऽस्मै दर्शयाम्यहम् । यथा तदर्शनतुष्टः, सोऽर्पयेत् स्वर्णपूरुषम् ॥४५।। मत्वेति योगिना स्पृष्टो वाद्यमानः स डिण्डिमः । गत्वा च भूभुजं योगी, प्रोवाचेति गिरा मृदु ॥४६।। ददासि चेद्वचः स्वं त्वं, मम शपथपूर्वकम् । मत्कार्यं कुरुषे चेत्तत्, कुमारं दर्शयाम्यहम् ॥४७॥ राजाऽऽह निश्चयाद्वाक् ते, योगिन् ! कार्या मया खलु । प्राणप्रियं कुमारं मे, दर्शय क्वाऽपि सत्वरम् ॥४८॥ योगी प्राह मया राजन् !, साधितः स्वर्णपूरुषः । मम स्थानात् स केनाऽपि, गृहीतो जीवितव्यवत् ॥४९॥ संशोध्याऽर्पय तं मे त्वं, पुरेऽस्मिस्तस्कराऽऽकुले । तेनेत्युक्ते नृपः शीघ्रं, शोधयामास तं पुरे ॥५०॥ परं न प्राप्तः पुरुषस्ततश्चाऽऽकृष्टिकृत्पुमान् । राज्ञाऽऽदिष्टः स्वर्णनरमाकष्टुं मण्डलं व्यधात् ॥५१॥ यथाविधि स आटोपात्तन्मन्त्रानुच्चरन्मुहुः । होतव्यं वस्तु चिक्षेप, वह्निकुण्डे स्थिराऽऽत्मकः ॥५२।। ततः स स्वर्णपुरुषो निःस्वगेहाच्चलत् किल । आक्रोशनिःस्वपुत्रीभिः, पाणिपादे धृतो दृढम् ॥५३।। मन्त्रेणाऽथ समं ताभिः, स आकृष्याऽऽशु मण्डले । सनिर्घातं पुरः क्षिप्तः, पश्यतो भूभृतस्ततः ।।५४॥ उच्चैः प्रलप्य ताः प्रोचुश्चिरादृष्टः क्व यासि तत् । न मोक्ष्यामो वयं त्वां हि, येन नो भक्ष्यमस्यहो ! ॥५५॥ राजा श्रुत्वेति तद्वाचमात्मन्यपायभीरुकः । तासां दृष्ट्वा च तां मूर्ति, ता व्यन्तरीरमन्यत ॥५६।। चतुर्थव्रते मदनमञ्जरीकथा । ४४१
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy