________________
राजाऽऽह मेऽत्र सन्देहोऽभूत् सोऽन्यैर्न निवर्त्यते । जानाम्यसत्याः सर्वेऽपि, नूनं नैमित्तिका अमी ।।३३।। अस्त्यत्र नगरे श्रेष्ठी, विमलस्तस्य विद्यते । स्मरनन्दन इत्याख्यो मानितः पुत्रको गुणी ॥३४॥ स बालब्रह्मचार्येव, सम्यक्त्वाऽऽराधनाप्रियः । स यत्पृच्छति तत्कणे, ब्रूते शासनदेवता ॥३५॥ स चेन्मे कथयत्येतत्ततः प्रत्येमि नाऽन्यथा । तद्वचांसि विना राज्यं, त्यक्त्वा तीर्थानि गम्यहम् ।।३६।। मन्त्री श्रुत्वेति भूपोक्तं, राजपत्नीमुपाययौ । आचख्यौ राजवाचं च, साऽथ श्रेष्ठिनमाह्वयत् ॥३७॥ आख्याय शुकवृत्तान्तमभाणीच्छेष्ठिनं तु सा । तव पुत्रकवाक्येन, प्रत्येति नृपतिस्ततः ॥३८।। तथा त्वया स आदेश्यः, शुकवाचं यथाऽन्यथा । कृत्वा प्रत्यापयत्येष, राजानं ग्रहिलाऽऽग्रहम् ॥३९॥ गत्वा कारय शीघ्रं तदित्यादिश्य स्वयं त सा। सन्मान्य श्रेष्ठिनं वस्त्राऽऽदिभिर्द्राग् विससर्ज च ॥४०॥ गत्वा श्रेष्ठ्यप्यभाणीत्तं, स्मरनन्दनमेष च । शासनदेवीमाराध्याऽपृच्छद्व्यतिकरं हि तम् ॥४१॥ तयाऽऽख्यायि यदेषा हि, नृपभार्याऽन्त्यजाऽन्वया । कार्यो नैवाऽत्र सन्देहः, प्रमाणं शुकवाग् खलु ॥४२॥ ततश्च श्रेष्ठिना सार्द्धं, समेत्य स्मरनन्दनः । चख्यौ तस्यै हि यत्कीरवाचः स्युरन्यथा नहि ॥४३।। कामपताकाऽथ प्रोचे, यद्यप्येवं तथाऽपि हि । राज्ञोऽग्रे शुकवाक्कथ्या, मिथ्या मदुपरोधतः ।।४४।।
४२८
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।