SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ राजा प्राह महाभाग !, देशाऽऽचारोऽयमत्र हि । अपुत्रो यो म्रियेताऽऽशु, राजा गृह्णाति तद्धनम् ॥३२॥ उवाच धरणेन्द्रोऽथ, जीवनस्त्यस्य पुत्रकः । राजाऽऽह क्वास्ते ? स प्राह, निखातोऽस्तीह रत्नवत् ।।३३।। ततश्च राज्ञोत्खानिते, पुत्रे जीवति रोदिति । आगत्य श्रीसखी दत्ताऽऽशीर्वादा तमदीधपत् ।३४।। धत्वा च धरणेन्द्रोऽपि, स्वरूपं तस्य तां कथाम् । राज्ञे निवेद्य बालाय, दत्त्वा हारं तिरोदधे ॥३५।। श्रुतया कथया तस्य, राजा विस्मयमादधत् । यत्नेनाऽयं शिशुः पाल्यः, इत्यादिश्य ययौ गृहान् [हम्] ॥३६।। श्रीकान्तस्य कृते शीघ्रं, स्वजनैरौर्ध्वदेहिके । नागकेतुरिति प्रीत्या, दत्तं नाम शिशोस्तदा ॥३७।। चतुष्पर्त्यां च बालोऽपि, चतुर्थं कुरुते तपः । सः चतुर्मासके षष्ठं, पर्युषणादिनेऽष्टमम् ।।३८।। कुर्वन्नेव सदाप्येष, नागकेतुर्जितेन्द्रियः । यौवनेऽपि ययौ नैव, विकारं मान्मथं क्वचित् ॥३९॥ जिनेन्द्रपूजानिरतः, साधूपासनतत्परः । सामायिकपौषधाऽऽदिव्रतान्यपालयत् सदा ॥४०॥ अन्यदा विजयसेननृपेण कोऽपि सत्पुमान् । चोरीकारकलङ्केन, व्यापादितश्चतुष्पथे ॥४१॥ आर्तध्यानात् स मृत्वाऽभूद्व्यन्तरोऽवधिना ततः । स विज्ञाय स्ववृत्तान्तं, चुकोप भूभुजे भृशम् ।।४२।। राजानं च सभाऽऽसीनमागत्याऽदृश्यरूपभृत् । आहत्य पाणिना बाढं, व्यन्तरोऽपातयद्भुवि ॥४३।। तपसि नागकेतुकथा । ३९३
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy