________________
तपसि नागकेतुकथा ।
न नीचैर्जन्म स्यात् प्रभवति न रोगव्यतिकरो, न चाऽप्यज्ञानत्वं विलसति न दारिद्र्यललितम् । पराभूतिर्न स्यात् किमपि न दुरापं किल यतस्तदेवेष्टप्राप्तौ कुरुत निजशक्त्याऽपि सुतपः ॥१॥ तपःप्रभावाज्जन्तूनां, जायते किल शाश्वतम् । निर्वाणपदमाश्वेव, नागकेतोरिव ध्रुवम् ॥२॥ अस्ति पूश्चन्द्रकान्ताऽऽख्या, यत्र चन्द्रोदये सति । चन्द्रकान्तगृहप्रोद्यत्सुधास्नानसुखी जनः ॥३॥ राजा विजयसेनाऽऽख्यस्तत्राऽस्ति यस्य सेनया । उन्मूल्य द्विषतः क्षिप्ता, द्रुमा नद्येव पूर्णया ॥४॥ तत्र चाऽस्ति वणिग्मुख्यः, श्रीकान्ताऽऽख्यः समृद्धिभाक् । श्रीसखी नाम तद्भार्या, पतिव्रता व्रतप्रिया ॥५॥ उपयाचितानां लक्षैस्तस्या जातः सुतः क्रमात् । बभूव च तथाऽऽसन्नं, पूज्यं पर्युषणादिनम् ॥६॥ करिष्यामोऽष्टमतपोऽत्रेति कुटुम्बभाषितम् । श्रुत्वा स बालको जातिस्मृत्या प्रत्यशृणोदिति ।।७।।
३९०
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।