SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ शीले मन्त्रिपुत्रीकथा । शीलं मन्त्रः स्वपरेषां, सर्वोपद्रवरक्षणे । आत्मनः कर्मकक्षाग्निरमात्यदुहितुयथा ॥१॥ पुरं राजगृहं नाम, धाम धर्मनयश्रियाम् । अस्ति तीर्थकृतां हम्य॒र्धयः साधुभिरावृतम् ॥२।। वैरिस्त्रीपत्रवल्लीभिः परिपुष्टासिधेनुकः । राजा तत्राऽस्ति भूपालशेखरश्चन्द्रशेखरः ॥३॥ तस्याऽऽसीन्नीतिरीतिज्ञो, मन्त्री धात्रीप्रपोषकः । स्वामिभक्तश्च शक्तश्च, धार्मिको वसुसज्ञकः ॥४॥ राजाऽप्यनेकशास्त्रज्ञो, विद्वत्परिषदाश्रितः । नव्याऽर्थकाव्यकर्तृनत्यर्थं सन्मानयत्यसौ ॥५॥ अथाऽस्य कीर्तिमाकाऽप्रतिमप्रतिभाऽन्वितः । अन्तर्वाणिस्ततस्तत्र, विद्वानेकः समाययौ ॥६॥ तेन प्रोद्गान्यवाद्यन्त, न्यक्कारीणि विपश्चिताम् । न कोऽप्यधारयत्तानि, फूत्कुर्वद्भुजगानिव ॥७॥ ज्ञात्वाऽथ भूभुजा तेन, विद्वान् देशान्तराऽऽगतः । आकार्यत ततः कोऽर्थी, विद्यारत्नजुषां न वा ।।८।। ३७६ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy