SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ त्रिश्च प्रदक्षिणीकृत्य, प्रणनाम शुभाऽऽशयः । ऊचे च प्रासुकाऽन्नं मे, गृहाणाऽनुगृहाण माम् ॥२५९।। शरीरधारणाहेतुप्रासुकाऽन्नजिघृक्षया । मुनिर्जगाम यत्राऽऽस्ते, तत्प्रिया काञ्चनप्रभा ॥२६०।। तया तेन च भावेन, ढौकिते शम्बले निजे । कल्पनीयमिति ज्ञात्वा, जगृहे मुनिपुङ्गवः ॥२६१॥ अहो ! दानमहो ! दानमहो ! पुण्योदयोऽनयोः । इत्युक्त्वा व्यन्तरोऽभाणीवृणीष्वैकं वरं नर ! ॥२६२।। कामकेतुः स्वभावेन, महावाञ्छो ययाच तम् । स्थानेऽत्रैव नवं कृत्वा, प्राज्यं राज्यं हि देहि मे ॥२६३।। तुष्टेन व्यन्तरेणाऽथ, चक्रे तत्र नवा पुरी । हस्त्यश्वलोकरम्यायां, तस्यां सैष कृतो नृपः ।।२६४॥ काञ्चनप्रभया युक्तः, कामकेतुः प्रभाववान् । राज्यं व्यन्तरसाहाय्यात्, देशे तत्र चकार सः ।।२६५।। विक्रमात्तेन सर्वेऽपि, राजानोऽन्ये वशीकृताः । स्फीतं समृद्धं स्वं लोकं, रक्षता ववृधे स्वयम् ।।२६६।। आनाय्य स्वजनाः स्वाऽग्रे, सन्मानात्तेन चक्रिरे । स्वराज्यसौख्यदायादाः, सतामाचरणं ह्यदः ॥२६७|| दानेनाऽवाप्तसाम्राज्यभोगः प्रत्ययितो हृदि । तपश्चारित्रपात्रेषु, दानं श्रद्धापरो ददौ ॥२६८।। क्रमेण गुरुसामग्रीमासाद्याऽऽसादितव्रतः । पञ्चषैश्च भवैर्मोक्षं, तज्जीवो लप्स्यते ध्रुवम् ॥२६९।। ऐहिकाऽऽमुष्मिकसुखलालसैस्तत् सदाऽपि हि । देयं दानं सुपात्रेषु, तद्धि सर्वेष्टसिद्धिकृत् ॥२७०।। इति दाने कामकेतुकथा ॥ ३७० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy