SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उपरोधदाने सुन्दरकथा अस्त्युज्जयिनी जयिनी, नानाऋद्ध्याऽलकापुरः I धर्मकामाऽर्थमोक्षाणां, भूर्वेदानां विधिर्यथा ॥१॥ भानुर्व्योम्नीव सत्तेजा, राजा तत्राऽस्ति विक्रमः । यस्योदये द्विषद्धूका, जग्मुर्भूधरकन्दराः ॥२॥ तत्र चाऽऽढ्यवरो मिथ्यादृष्टिः श्रेष्ठ्यस्ति सुन्दरः । यशोमतीति तद्भार्या, तत्पुत्रः प्रियवर्द्धनः ||३|| वर्षाऽऽरम्भे तरङ्गिण्याः, पूरे इव गते धने । अन्येद्युश्चिन्तयामास, खिन्नश्चेतसि सुन्दरः || ४ || प्राप्तगतेभ्यो द्रव्येभ्यस्तेषामप्रापणिर्वरम् । तद्गर्वाद्याचनं यत्तत्, कर्माऽपि कुरुते न यत् ॥५॥ न च मे वेश्मनि द्रव्यं, येन स्याद्भोजनाऽऽदिकम् । कुटुम्बे च लघुः सार्थः, का गतिधिग् दरिद्रताम् ॥६॥ किञ्चाऽत्र भूरि स्वजने, विनाऽर्थैः स्युः पराभवाः । यामो देशान्तरं किञ्चिद्ध्यात्वैवं प्रचचाल सः ॥७॥ मार्गोचितपाथेयस्य, सकुटुम्बस्य गच्छतः । अध्वन्यल्पजनस्तस्य, सार्थः कश्चिदथाऽमिलत् ॥८॥ ३६० चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy