SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ शपथपूर्वं तद्वाचि, साऽपि प्रत्ययिता पुनः । यथावदौषधं चक्रे, बभूव च सुतः क्रमात् ॥३३॥ आरामे हि रुदत्या मे, पुत्रोपायस्त्वभूदिति । चक्रे सा बालकस्याऽस्य, नामेत्यारामनन्दनः ॥३४॥ प्राप्तश्च पाल्यमानोऽसौ, कलाभिः सह यौवनम् । ततः पद्मावतीं नामोपयेमे श्रेष्ठिकन्यकाम् ॥३५॥ लब्धाऽधिकारौ ग्रीष्मर्तुः, कुस्वामीवोपतापयन् । अन्यदाऽभूत्ततः शूरो व्यापारयन् करान् खरान् ॥३६।। व्यजनमरुतां सापत्न्येनाऽनिलः किल तापभद्रजनिवनितासाम्याऽऽधिक्यात् क्रुधा ववृधे दिनैः । प्रहरति कृतच्छायाऽऽसेवान् रविः कुहनः करैः, शयितुमनलं श्वासोऽप्यन्तर्बहिश्च गतान्यधात् ॥३७।। आरामनन्दनः पत्न्या, समानगुणरूपया । रममाणोऽन्यदाऽयासीन्नर्मदां जलकेलये ॥३८॥ क्रीडत्यस्मिंस्तया सार्धं ग्रीष्मौ नर्मदाजले । स्रोतःप्रतीपमभ्यागात्, पुष्पग्रथितकञ्चकः ॥३९।। यान्तं चित्रकवद्वीक्ष्य, पद्मावत्याह कौतुकात् । प्राणेश ! पश्य पश्याऽयं, कथमायाति कञ्चकः ? ॥४०॥ कल्पद्रुकुसुमाऽऽमोदवासाऽऽढ्यनर्मदाजलः । स पुष्पकञ्चको मध्यस्रोतमायाति दूरतः ॥४१॥ तं तथा वीक्ष्य सा प्राह, कौतुकोत्फुल्लमानसा । स्वामिन् ! कथञ्चिदानीय, ममैनं देहि कञ्चकम् ॥४२॥ कथमभ्येत्ययं तन्वि !, शरवद्यान् महाजले । पत्येत्युक्ते जगादैषा, नर्मदा तर्हि मे गतिः ॥४३॥ ५४ चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy