SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नृपतेर्मातरं पुर्यामत्र यः कथयेत्सतीम् । तस्याऽथितं नृपो दत्ते, स तत्रेत्युदघोषयत् ॥५२६।। न कोऽप्यकथयद्राक्षे, यावत्तावदुपेत्य तम् । भूपं विज्ञपयामास, रोगिणी काचिदङ्गना ॥५२७।। कथयिष्यामि ते राजन् !, मातरङ्खलु सम्प्रति । इमं रोगं मदीयं चेत्, कथञ्चित्स्फेटयिष्यसि ॥५२८॥ सहर्ष प्राह तां राजा, दृष्टायां मातरि ध्रुवम् । चेन्नोपशमयाम्येनं, तत्पिबामि पयोऽपि न ॥५२९।। इति नृपोदिते साऽपि, गत्वा क्वाऽपि क्षणात्ततः । गङ्गामानीय सैषा ते, मातेति प्राह सा नृपम् ॥५३०॥ गङ्गायाश्च नृपं वीक्ष्य, बिभ्रत्याः परमां मुदम् । स्तनाभ्यामक्षरत् स्तन्यं, दृग्भ्यां च सलिलं यथा ॥५३१॥ यतः- दग्धो दोस्थ्येन जनो मिलितः स्वजनस्य तापमपनयति । शीतलसलिले लुलिता, ह्यान्तरदाहं सुधा त्यजति ॥५३२॥ ततः प्रत्ययितो राजा, चक्रे तस्यै नमन्नमः । अपृच्छच्च पिता मे क्व?, सा प्राह स्वर्ययौ स हि ॥५३३॥ पुनराह नृपः कोऽप्यन्योऽस्ति सा प्राहकोऽपि न । अहं धृताऽस्मि भाग्यैः स्वैः, राज्यं दर्शयितुं तव ॥५३४॥ त्वां च राज्यधरं ज्ञात्वा, पिता ते धार्मिको जडः । मत्तस्त्वां त्याजयामास, स्वपुण्यैस्त्वं तु वर्द्धसे ॥५३५।। श्रुत्वेति नृपतिस्तादृग्, निजभाग्यप्रमोदितः । आनयत् सौधमात्मीयं, मातरं देवतामिव ।।५३६।। अथाऽहूय नृपो वैद्यान्, रोगिणीं तामदर्शयत् । परीक्षापूर्वमेते च, वीक्ष्य व्यजिज्ञपयन्नृपम् ॥५३७॥ सत्त्वेऽजापुत्रकथा । ४७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy