________________
कुमाराऽऽश्वसिहि त्वं तमित्याह शुकपुङ्गवः । बन्धोरिव वचस्तस्य, श्रुत्वोत्तस्थौ च सोऽप्यथ ॥४१८॥ वक्षसा शुकमादाय, सबाष्पं तमुवाच सः । कथमेतदरिष्टं मे, पितृराष्ट्रस्य चाऽभवत् ? ॥४१९।। स प्राह त्वां विना सर्वमत्या[त्य] हितमभूदिदम् । तत्त्वं मुञ्च शुचं शत्रुविजयाय यतस्व च ॥४२०।। कुमारः प्राह दूरेऽहं, कुर्वे ब्रूहि किमत्र भोः ? । शस्त्राशस्त्रिषु युद्धेन, जीयन्ते शत्रवो यतः ॥४२१॥ अथोऽवोचदजापुत्रो, मा भैषीर्मा भवाऽऽकुलः ? । एष हन्मि द्विषस्तेऽहमित्युक्त्वा शुकमादिशत् ॥४२२॥ हनूमानिव सीतायाः, शुद्धिमस्य शुक ! द्रुतम् । गत्वा विज्ञपयाऽमात्यं, सावष्टम्भो भवेद्यथा ॥४२३॥ कुमार ! त्वं स्वयं लेखं, लिखित्वा क्षेमशंसिनम् । शुकायाऽर्पयेत्युक्तोऽथ, तेन सोऽपि तथाऽकरोत् ॥४२४॥ शुकश्च तस्य वात्सल्याच्चिरस्थितिममत्वतः । लेखमादाय गत्वा च, मन्त्रिणेऽथ समार्पयत् ।।४२५॥ कुमारस्य सतः शुद्धौ, कथितायां शुकेन सः । सावष्टम्भः सभायां तं, सहर्षं मन्त्र्यवाचयत् ॥४२६।। शुकाऽनुपदमेषोऽहमागत्याऽरीनिहन्मि तत् । महामात्य ! त्वया भाव्यमकुतोभयचेतसा ॥४२७।। वाचयित्वेति स प्रोच्चैविशेषाद्गतभीरभूत् । सावष्टम्भे प्रभौ पृष्टे, पत्तयः स्युरभीतयः ॥४२८।। भारण्डपक्षिणो रूपं, विधाय गुटिकावशात् । पक्षाऽन्तस्तानिधायाऽऽगात्, पुरे तस्मिन्नजासुतः ।।४२९।।
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।