SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ पितेव तनयैर्वृक्षैः, सफलैः सुभगं सरः । पथि दृष्ट्वा जहर्षाऽयं, दातारमिव याचकः ॥१२७॥ अथाऽसौ पालिमारुह्याऽसह्यमार्गश्रमाऽऽकुलः । ग्रन्थिबद्धफलां मुक्त्वा, पटीमधिजलं ययौ ॥१२८॥ दुःखाऽऽर्त्त इव धर्मोपदेशं प्राक् स जलं पपौ । पश्चाद् व्रतमिव स्नानं, विधातुमुपचक्रमे ॥ १२९॥ इतश्च मर्कटः कश्चित्परिभ्राम्यन्नितस्ततः । कण्ठपीठलुठन्मुक्ताहारोऽगात्तां पटीं प्रति ॥ १३०॥ सफलग्रन्थिमाघ्राय, फलमत्तुं कृतस्पृहः । पादाग्रैर्ग्रन्थिमुद्ग्रन्थ्य, फलमादाय नष्टवान् ॥१३१॥ अजापुत्रः कृतस्नानो, यावद् याति पटीं प्रति । फलशून्यामपश्यत्तां, पुत्रशून्यामिव स्त्रियम् ॥१३२॥ पटीं निभृतमालोक्य, फलं यावन्न पश्यति । भयविस्मयमूढात्मा, तावदेतदचिन्तयत् ॥१३३॥ अरण्यस्थे सरस्यस्मिन्नसत्यन्यजनेऽधुना । अकस्मात्केन मत्पुण्यमिव हाऽपहृतं फलम् ॥१३४॥ निक्षिप्य चक्षुषी दिक्षु, यावदास्ते स विस्मितः । तावदागात्पुमानेको, मूर्त्तिमानिव मन्मथः ॥१३५॥ तूर्णमभ्यर्णमभ्येत्य, सोऽजापुत्रं कृताऽञ्जलिः । नत्वाऽवोचदिमां वाचं, सुधासब्रह्मचारिणीम् ॥१३६॥ शाखामृगचरः सोऽहमादां फलमिदं तव । तद्वृन्ताऽग्ररसाऽऽस्वादाज्जातोऽस्मि पुरुषः क्षणात् ॥१३७॥ १. पूर्वं शाखामृग:, इति शाखामृगचर: 'भूतपूर्वे चरट्' ५।३।५३ | सत्त्वेऽजापुत्रकथा । १३
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy