SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ त्यक्त्वा तद्दयिताऽश्रुमिश्रणकवोष्णाऽम्भोभुवो यद्यशोहंसोऽगाद् धुधुनीं स तैर्दिविषदीभूतैर्वृतः शत्रुभिः ॥५७|| तत्राऽभूद्धर्मनिष्णातो, धर्मोपाध्यायसञकः । द्विजः शान्तो दयागेहं, ज्योतिःशास्त्रविशारदः ॥५८॥ गङ्गानाम्नी च तस्याऽभूद् गृहिणी पतिदेवता । षट्पुत्राऽनन्तरं तस्याः, सप्तमस्तनयोऽजनि ॥५९॥ निरैक्षिष्ट द्विजः सूनोर्जन्मग्रहफलं स्वयम् । अज्ञासीच्च यदेषोऽत्र, पुरे भावी नृपोत्तमः ॥६०॥ अथाऽसौ चिन्तयामास, विषादाऽऽपन्नमानसः । द्विजवंशप्रतीपोऽयं, हहा ! जातः सुतो मम ॥६१।। यद्याश्रमगुरू राजा, विष्णुमूर्तिः स यद्यपि । तथाऽप्यस्मिन् न मे प्रीतिर्यद्राज्यं नरकप्रदम् ॥६२॥ पूर्वे जन्मन्ययं सूनुस्तत्पुण्यं समुपार्जयत् । येनाऽवश्यं विधातव्यं, राज्यमत्र पुरेऽमुना ॥६३॥ यद्येष मद्गृहे तिष्ठन्, राज्यं प्राप्स्यति दैवतः । तदा द्विजकुलाऽऽचारं, तद्व्यग्रो न करिष्यति ॥६४॥ एनं राजानमाश्रित्य, मद्वंश्याः सुखलम्पटाः । न ब्राह्मण्यक्रियाः कुर्युस्ततोऽप्यस्मत्कुलक्षतिः ॥६५॥ यो यस्यां समभूज्जातो, स तदाचारवर्जितः । ऋद्धोऽपि निन्द्यते मोऽनधीयान इव व्रती ॥६६॥ धिग्मामहह ! येनैष, पुत्रो जातः क्रमाऽपहः । धिग्धिगेषोऽपि राज्याऽर्हो, मद्गेहे यदवातरत् ॥६७।। तदेनं स्वकुलोत्तीर्णं, न दोषस्त्यजतो मम । न चाऽप्येष मया त्यक्तः, पुष्टपुण्यो विनक्ष्यति ॥६८।। सत्त्वेऽजापुत्रकथा ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy