SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अन्ये दिशन्तु सुदशां द्विदशा जिनेन्द्राः, तन्द्रामपास्यतु मम श्रुतदेवता च । दृष्टोऽस्मि यैर्धवलया स्वदृशा गुरूंस्तान्, वन्देऽथ गौतममुखान् गणधारिणश्च ॥५।। इत्थं त्रिधा प्रणतवानिह विघ्नघात-निघ्नानमूनथ निजाऽभिमते यतिष्ये । तच्चाऽर्हतश्चरितकीर्तनमष्टमस्य, तच्छूयतां स्थिरसुखाय शिवाय भव्याः ! ॥६॥ धर्मं चतूरूपमुपैति यस्तं, त्यजन्त्यपास्या गतयश्चतस्रः । ततत्पारिशेष्याद्गतिरस्य शस्या, स्यात्पञ्चमी हन्त ! यतध्वमत्र ।।७।। इह तावत्किलाऽऽत्मानः, कर्मभिर्जातिवैरिभिः । अनन्तकायकारायां, बद्ध्वा क्षिप्ता वसन्ति भोः ? ॥८॥ सम्मर्दादिव चाऽन्योन्यं, तदन्तःस्थातुमक्षमाः । कथञ्चिद् यान्ति प्रत्येकवनस्पत्यङ्गणेऽथ ते ॥९॥ कुर्वन्तोऽपि ततो नष्टुं, कर्मभ्यो बिभ्यतः किल । मेध्या गाव इवाऽत्रैव, भ्राम्यन्तः सन्ति ते चिरम् ॥१०॥ यथाप्रवृत्तिकरणाद्, मुक्तास्तद्वन्धनादमी । पृथ्वीकायाऽऽदिगर्तासु, पतन्ति यदचेतनाः ॥११॥ तत्राऽपि स्वस्वकायेषु, घातताडनपीडनैः । अविश्रान्तामनिर्वाच्यां, कष्टकाष्ठां भजन्ति ते ॥१२॥ कथञ्चित्कर्मकल्लोलैरेकाऽक्षत्वमहोदधेः । विकलेन्द्रियकूलेषु, क्षिप्यन्ते ते क्षणादपि ॥१३॥ यथा कृष्णतिलश्रेणी, स्यादेको ह्युज्ज्वलस्तिलः । दुष्कर्मराशौ सहजस्तद्वत्कर्मलवः शुभः ॥१४॥ १. विंशतिः । २. शत्रून् । ३. मन्दचेतना इत्यर्थः । ४. एकाक्षत्वं-एकेन्द्रियत्वम् । चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy