________________
परीषहचमूधाटी, सहमान: सुचेतसा । मुनिः सोऽपालयत्सम्यग् दीक्षां शुद्धां जिनेशितुः ॥ २२४ ॥ स मृत्वा चाऽऽयुषः प्रान्ते, देवोऽभूदच्युते ततः । सम्पूर्णाऽऽयुस्ततश्च्युत्वा जातस्त्वमसि भूपते ! ॥२२५॥ त्वया पूर्वभवे दानं, सम्यग् श्रद्धानपूर्वकम् । तपःसंयमपात्रेभ्यो ददे तेनाऽसि राज्यभाक् ॥ २२६॥ या च सा भवता साध्वी, भार्या सतीत्वशालिनी । जातगर्भा निष्ठुरेण, निर्वासिताऽऽत्मनो गृहात् ॥ २२७॥
तस्मात्कर्मपरीणामवशाद्देशाऽन्तरं भवान् । एकाकी क्षुत्पिपासाऽऽर्त्तो बभ्राम कर्मसञ्चयात् ॥ २२८॥ इत्याकर्ण्य गुरूणां स, वाचमाचान्तकल्मषाम् । जग्राहाऽभिग्रहं राजा, गुरुभ्य: पुरतः क्षमी ॥२२९॥ सम्यग् स्वरूपमज्ञात्वा, न मया कमपि प्रति । रोषितव्यमिति प्रोच्चैर्वाचं प्रोदुच्चरन्नृपः ॥२३०॥ पुनः प्रणम्य पप्रच्छ, स गुरून् विहिताऽञ्जलिः । ममाऽऽत्मा लप्स्यते मोक्षं न वेति वदत प्रभो ! ॥ २३२ ॥
ज्ञात्वा ज्ञानेन तेऽप्यूचुरजापुत्र ! महीपते ! । चन्द्रप्रभजिनेन्द्रस्य, तीर्थे त्वं सेत्स्यसि ध्रुवम् ॥२३२॥ स च चन्द्रप्रभस्वामी, पुर्यामत्र भविष्यति । इक्ष्वाकुवंशसम्भूतो राजा तीर्थकृष्टमः ||२३३ || त्वमेतस्मिन् भवे स्वाऽऽयुः, प्रपाल्य स्वर्गमेष्यसि । भूत्वा मर्त्यः पुनर्भावी, तस्याऽऽद्यगणभृद्भवान् ॥२३४॥ श्रुत्वेति मुमुदे राजा, तथेति गुरुजल्पितम् । अभिस्तुत्य सुभक्त्या च प्रणम्य विससर्ज तान् ॥२३५॥
२७०
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।