SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ इत्युक्त्वा सा रुरोदोच्चै, रोदयन्ती सतां मनः । तथाऽप्यकरुणो राजा, नाऽस्मार्षीन्नाऽभ्यमन्यत ॥१६४॥ धर्माऽधिकारिणः प्रोचुर्मुग्धे ! किं रुदितेन ते ? । कथय त्वमभिज्ञानं, येन प्रत्येति भूपतिः ॥१६५॥ शकुन्तलाऽऽह वीक्ष्येऽहं, सत्यमस्य महीपतेः । अभिज्ञानाऽक्षरपत्रैर्मन्तव्यमिति सर्वगम् ॥१६६॥ सविमर्शं नृपो दध्यौ, साऽवष्टम्भं वदत्यसौ । अभिज्ञानाऽर्पणादेव, स्वीकृता किमियं भवेत् ? ॥१६७।। अस्तु पश्याम्यभिज्ञानं, विवादघ्नं स्फुटस्मृति । इति स्वेनैव राजा तामभिज्ञानमवादयत् ॥१६८॥ तापसेन ततः प्रोक्ता, नीतिमाह महीपतिः । पुत्रि ! पूरय सङ्केतमिति साऽथ शकुन्तला ॥१६९।। किलाऽङ्गुलीयकं राज्ञस्तथैवाऽस्ति ममाऽङ्गलौ । इति स्मृत्वा नृपं वीक्ष्याऽदर्शयत् साऽङ्गुली निजाम् ॥१७०।। किमिदं दर्शयत्येषेत्यादरात् सर्वसंसदि । पश्यन्त्यां सा स्वयं शून्यां, ततोऽद्राक्षीनिजाऽङ्गुलीम् ॥१७१।। हताऽहं मातरेवं हा !, क्व ययौ मेऽङ्गलीयकम् ? । इति प्रलपन्ती साऽथ, प्रैक्षिष्टेतस्ततो भुवम् ॥१७२।। अपजहेऽथ केनाऽपि, पतितं वा स्वयं भुवि । न वेद्मि क्व गतं राज्ञा, स्वेनाऽर्पिताऽङ्गुलीयकम् ॥१७३।। सत्यवच्च नृपः प्रोचे, मुने ! पश्यत सत्यताम् । अरण्यवासमुग्धानां, तापसीनां व्रतस्पृशाम् ॥१७४।। अहो ! धाष्र्यमहो ! धाष्र्यमेतस्या आश्रमौकसः । असत्यमपि या सत्यीकृत्य प्रलपति स्फुटम् ॥१७५॥ दुष्यन्त-शकुन्तलाकथा । २६५
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy