________________
अचीकथंश्च कण्वर्षेराशिषं शुभकारिणीम् । राजन् ! वाचिकमप्यस्ति, गुरोस्त्वयीति तेऽवदन् ॥१२८॥ किमादिशन्ति गुरवोऽनुग्रहाय ममाऽधुना । एषोऽस्मि साधुशुश्रूषुस्तब्रूत गुरुवाचिकम् ।।१२९।। ततः प्राह तपस्व्येकस्त्वया ह्याश्रममीयुषा । गान्धर्वेण विवाहेन, परिणीता शकुन्तला ॥१३०।। अन्तर्वत्नी बभूवैषा, ततः कण्वर्षिणाऽधुना । प्रेषिताऽस्ति गृहद्वारे, गृहाणैनां स्वगेहिनीम् ॥१३१॥ तत्र प्रसूयमानायास्तस्याः स्याद्विघ्नसम्भवः । पुण्यवद्गर्भधारिण्यः, स्त्रियो रक्ष्या हि यत्नतः ॥१३२॥ विस्मयाऽऽतङ्कसम्फुल्लपक्ष्मव्याप्तविलोचनः ।
औत्सुक्यात्प्राह भूपालः, का सा ननु शकुन्तला ? ॥१३३॥ न कदाऽपि मया काचित्, परिणीता मुनेः सुता । कतरा गर्भवार्ता तु, यत्तस्या दर्शनं न मे ॥१३४॥ अविचार्यैव युष्माभिरादिष्टमेतदीदृशम् । क्वाऽऽश्रमे सा मुनेः पुत्री, क्वाऽभ्यमित्र्यस्त्वहं सदा ॥१३५॥ मुनिराह सदा राजन् !, व्यापारव्याकुलोऽसि यत् । स्मरति तत् कियत्तेऽत्र, मा त्वेनां नृप ! विस्मर ॥१३६।। शरणं यत्त्वमेवाऽस्या, नाऽन्यः स्थानमतः परम् । त्वत्तः सञ्जातगर्भाया, निवासः कोऽस्मदाश्रमे ? ॥१३७॥ मुने ! वेत्सि कथं गर्भो ममाऽयमिति भूभुजा । प्रोक्ते स तापसः क्रुद्धः, प्रोचे वदति गर्भिणी ॥१३८।। स्मारं स्मारं स्वयं राजन् !, नाऽऽदत्स्व मुनिपुत्रिकाम् । मान्यस्त्रीवद्विडम्ब्यैनामपि त्यक्तुं मतिं कृथाः ॥१३९॥
२६२
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।