________________
ततः किञ्चिदनुगम्य, वचोभिरनुकूल्य च । राजपुत्रीमभिष्वज्य, ललिता सा न्यवर्तत ॥२८३॥ मिलित्वा जयराजस्य, पादसूत्रविमोचनात् । स्वरूपीभूय स प्रोचे, वयस्यस्तं कृतस्मितः ॥२८४।। स्वप्नदृष्टं त्वयैवैतदासाद्यतेऽपरेण न । पुण्यधीव्यवसायानां, योगो भोगाय तेऽभवत् ।।२८५।। राजाऽऽह राजपुत्रीयं, योग्याऽस्यैवेति चेतसा । तद्गोत्रदेव्या स्वप्नोऽयं, मन्ये मे खलु दर्शितः ॥२८६।। स्त्रीकारि कण्डकं चैतत्कार्यकारि बभूव मे । करिष्यति कदाऽप्येतत्कार्यं पुरुषकार्यपि ॥२८७।। प्रतिष्ठस्व ततो मार्गे, पुरोभूयैव मन्त्रिणा । मन्दगामी हि तत्सार्थ, आवां तु लघुगामिनौ ॥२८८॥ इत्युक्तो जयराजोऽपि, तेन मित्रेण धीमता । कुमारीसैन्यमुल्लङ्घ्य, ययौ पद्भ्यां निजं पुरम् ॥२८९॥ पुरैव हि स राज्यं स्वं, स्वीचकाराऽविकारभाक् । अज्ञापितसमागच्छद्राजपुत्र्यागमस्ततः ॥२९०॥ किल न वेद्मि तद्राजपुत्र्यागमनमित्यथ । चचालाऽभिरिपुं तूर्णं, पूर्वस्यां दिशि भूपतिः ॥२९१॥ अखण्डगमनात् प्राप, पुरं शात्रवमादरात् । चतुरङ्गचमूचक्रात्, परिवेष्ट्य स्थितः स तत् ॥२९२।। अनङ्गसुन्दरीसैन्यं, साङ्काश्यपुरमागतम् । ज्ञात्वा नृपतिवृत्तान्तं, तत्राऽगाद्यत्र भूपतिः ॥२९३॥ दत्त्वा वासमथोपान्ते, राजसैन्यस्य मन्त्रिराट् । आदायाऽपूर्ववस्तूनि, द्वास्थपृष्टोऽनमन्नृपम् ॥२९४।।
जयराजकथा ।
२३१