SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ गायनोऽयमिति स्वर्णं, दीयमानमपि स्वयम् । अगृह्णन् भूभुजा स्नेहाज्जयराजो व्यसMत ॥२५९॥ यथास्थानं ततो राजपत्नीषु चलितास्वियम् । अनङ्गसुन्दरी तूर्णं, ययौ सौधमथाऽऽत्मनः ॥२६०॥ ऊचे च ललितामुत्का, गायनं तं समानय । यथा पृच्छामि वृत्तान्तं, सर्वं हंसगतं सखि ! ।।२६१॥ गत्वा च ललिता चख्यौ, जयराजाय भूभुजे । तस्या अनङ्गसुन्दर्या, अवस्थां च वचश्च तत् ।।२६२॥ सोऽपि सार्धं तयाऽऽलोच्य, किमप्यादिश्य कर्णयोः । व्यसृजत्तामेकां भूयः, साऽप्यगात् सौधमात्मनः ॥२६३॥ राजपुत्रीमथोचे सा, देवि ! नाऽऽयाति गायनः । किन्त्वाहैष यदायातु, राजपुत्रीह चेत् स्पृहा ॥२६४॥ ततश्चालक्षितैवान्यै, राजपुत्री तया सह । जयराजं ययौ येन, यात्यर्थी कार्यसाधकम् ॥२६५।। तदागमनमात्रेण, जयराजो बभूव सः । अन्तरुन्मीलदानन्दप्लवमानेन्द्रियव्रजः ॥२६६।। युष्माभिहँसयोर्वृत्तं, ज्ञातमेतत्कथं ? त्विति । जयराजं ललितया, पप्रच्छ राजपुत्रिका ॥२६७।। जयराजस्ततोऽवोचच्छृणु राजसुते ! कथाम् । उत्तरस्यां ककुभ्यस्ति, साङ्काश्यं नाम पत्तनम् ॥२६८।। जयराजो नृपस्तत्र, कुरुते राज्यमुत्तमम् । निधिभिर्धनदः कामो, रूपेणेन्द्रो नयेन च ॥२६९।। ज्ञात्वा कुतोऽपि वृत्तान्तं, निजपूर्वभवोद्भवम् । राजा स्त्रीद्वेषमाबिभ्रच्चरति ब्रह्म केवलम् ॥२७०।। जयराजकथा । २२९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy