SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ तत्कालप्रसवेनाऽऽर्त्ताऽप्यानीयाऽऽनीय तल्लतः । पयश्चञ्चुपुटेनाऽहमसिञ्चं नीडमात्मना ॥१५१॥ भूयो भूयोऽपि सिञ्चन्त्या, नीडं पुत्रांश्च मे ततः । गत्यागतिक्लमोऽत्यर्थं, बाधामाधाच्छरीरके ॥१५२॥ इतस्ततश्च पर्यस्तजीवाऽऽच्छादितमादितः । बभूव सरसोऽप्यम्भोऽप्यशक्यग्रहणं मया ॥१५३॥ पुनर्हंसो मया प्रोक्तः, प्राणेश ! किमुपेक्षसे ? | पश्यतस्ते म्रियन्ते हा !, मत्पुत्रा दावदाहतः ॥१५४॥ इत्युक्तः सोऽप्यनुक्त्वैव, क्वाऽप्यगान्नभसा द्रुतम् । तत्प्रेम तच्च वात्सल्यं, तस्य मृत्युभयाद्गतम् ॥१५५॥ स्वस्य प्राणान् गृहीत्वाऽस्य, गच्छतो जीवितं कियत् ? । कृतघ्नः स्त्रीषु पुत्रेषु पितृषु म्रियते रटन् ॥१५६॥ धिग् धिग् तं निस्त्रपं हीनं, निर्ममत्वं सुनिर्दयम् । यस्तादृग्व्यसने दीनां, मामत्याक्षीत्सपुत्रिकाम् ॥१५७॥ अन्योऽपि व्यसनाद्वीरैरुद्भ्रियेतोपकारिभिः । किं पुनः पुत्रभाण्डानि, लभ्यानि भूरिभाग्यतः ॥ १५८॥ यतः— न स स्यात् पितृषु स्नेहो, न देवे नाऽपि सद्गुरौ । न मित्रे नाऽपि वित्ते च, यादृक् पुत्रेष्वकृत्रिमः ॥१५९॥ स दुरात्मा मम प्रेम्णा, मा गृह्यतां हतः शठः । दह्यमानान् सुतान् पश्यन्, गृहीतः कृपयाऽपि न ॥१६०॥ ततो हताऽऽशा भूयोऽपि, तद्वर्त्म प्रेक्ष्य बह्वथ । प्रवृत्ता पुनरानेतुं, कष्टादपि सरःपयः ॥१६१॥ सहन्ती तत्र केषाञ्चित्, शृङ्गताडनमुत्कटम् । केषाञ्चित् पक्षघातं च, केषाञ्चिच्चञ्चचर्व्वणम् ॥ १६२॥ २२० 44 चन्द्रप्रभचरित्रे प्रथम परिच्छेदः
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy