________________
अथवा किं भाव्यर्थजिज्ञासया ? |
ग्राह्यस्तनूजो हि पितृणवैरैस्तत्स्वाऽङ्गमांसप्रतिमानखण्डैः । सम्पूरयंश्चेलकमात्मपित्रा, कृतां प्रतिज्ञां लघु पूरयामि ॥
(इति यावत्सहस्राऽऽयुधः सज्जो बभूव तावद्राजा सावष्टम्भं किमनया मुहुर्मुहुर्वपुः कर्त्तनकदर्थनया स्वयमेव तावत्तुलामारुह्य प्रीणयामि पक्षिणमिति तथैव करोति ।)
(कुसुमवृष्टिदुन्दुभिनादाऽनन्तरं आकाशे)
तुलामारोहतः स्वेन, श्रीवज्राऽऽयुधचक्रिणः । माने दाने च सत्त्वे च, कस्तुलामधिरोहति ? ॥ (ततः प्रविशति गगनादवतरणं नाटयन् देवः ।) राजा - (विलोक्य ससम्भ्रमम्) किमेतत् ? । (देवः प्रणम्योपविशति )
राजा - (स्वगतम्)
एतौ कुत्रगतौ विहङ्गमवरौ ? रिक्ता किमेषा तुला ?, मांसोत्कर्त्तनसव्रणा तनुरियं जाता कथं वा पटुः ? । कोऽयं दिव्यविभूषणाऽतिसुभगस्तेजः परीतः पुमान् ?, किं वा सर्वमिदं मम भ्रमवतश्चित्तस्य विस्फूर्जितम् ? ॥
देवः- महासत्त्वाऽवतंस ! अलममुना विस्मयेन, अस्मत्कृतमिदं कपटनाटकम् ।
त्रस्तः पारावतः कुद्धः, श्येनश्च तमनुव्रजन् । युष्मत्सत्त्वपरीक्षाऽर्थं, सर्वमेतन्मया कृतम् ॥
(राजा सव्रीडमधोमुखस्तिष्ठति)
देवः
नाऽस्त्येव वज्राऽऽयुधचक्रिणोऽन्यः, कुत्राऽप्यहो ! सत्त्ववतां धुरीणः । श्लाघामिमामिन्द्रमुखान्निशम्य, क्रोधात्कृतं यत्तदिदं क्षमस्व ॥
श्रीवज्रायुधकथा |
२०३