SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ लक्ष्मी:- (हस्तन्यस्तकपोलतला तूष्णीमास्ते ।) प्रियं- (स्वगतम्) इट्ठे जेणे धुवमुवद्दवसंसएवि, सेओविवज्जयमई अवरो वि भोदि । एसा पुणो पणयणी पइणो मणंमि, लद्धासणा नणु भविस्सदि किं न एवं ॥ (सनिःश्वासं च) कहं पुण सामिणीए मणो विणोयइस्सं । (प्रविश्य) क्षेमङ्करा दासी - सामिणि ! सामिणि ! सरणीकिददेवपायमूलस्स पारेवयस्स थंभनिज्जूहयनिसण्णस्स सेणस्स य निरक्खणत्थं मिलिदो सव्वो वि णयरजणो त्ति, अज्जा तुमं पि हक्कारेदि । (लक्ष्मी:- ससम्भ्रममुत्थाय सखीभ्यां सह सौधाय परिक्रामति ।) (ततः प्रविशति यथा निर्दिष्टो राजा श्येनः पारावतः अमात्य - पुरुषोत्तमसहस्त्रायुधप्रभृतिकश्च परिवारः) । पारापतः- (स्वगतं) अहो ! स्वैरप्रलपितेषु मानोर्ध्वं पाण्डित्यमाखण्डलस्य– आस्ते कश्चन काञ्चनप्रतिकृतिर्मर्त्यः पृथिव्यां स चा-, चाल्यः स्वर्गनिवासिनामपि वपुश्छेदेऽपि मानाद्ध्रुवम् । किञ्च प्रत्युत मण्डनं स भविता तेषामपीति ब्रुवन्नीशानाऽधिपतिस्ततान न मनः कस्य प्रकोपाऽऽकुलम् ? ॥ किमन्यदुच्यते ?, अयमहमधुना कृतवानेव मोघं मघोनस्तद्वचनम् । अथवाआत्मानं ख्यापयेद्विद्वान्नानिष्पन्नप्रयोजनः । राहुर्गृहीतचन्द्राऽर्को दृश्यते दिवि नाऽन्यदा । १. इष्टे जने ध्रुवमुपद्रवसंशयेऽपि श्रेयोविपर्ययमतिरपरोऽपि भवति । एषा पुनः प्रणयिनी पत्युर्मनसि लब्धासना ननु भविष्यति किं नैवम् ? ॥ कथं पुनः स्वामिन्या मनो विनोदयिष्यामि ? | २. स्वामिनि ! स्वामिनि ! शरणीकृतदेवपादमूलस्य पारापतस्य स्तम्भनिर्यूहकनिषण्णस्य श्येनस्य च निरीक्षणार्थं मिलितः सर्वोऽपि नगरजन इति आर्या युष्मानपि आकारयति । श्रीवज्रायुधकथा | १९७
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy