SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ राजा दध्यौ न लप्स्येऽहं, पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै, दत्त्वा स्यामकुतोऽभयः ॥२३२॥ ततः कुलपतिः कुर्वन्नाज्ञामिव समाययौ । कोपात्पराङ्मुखीभूय, प्रोचे द्राग् देहि हेम नः ॥२३३।। कियदपि गृहाणेदमित्युक्ते भूभुजा मुनिः । प्रोचे किमवधौ पूर्णे, पूर्णं स्वर्णं ददासि न ? ॥२३४॥ राजाऽऽह धिगधमर्णमुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि, तं प्रीणयति चाटुभिः ॥२३५॥ क्रोधात्कुलपतिः प्राह, ग्रहीष्येऽल्पं न काञ्चनम् । विक्रीय दयितापुत्रौ, यत्प्राप्तं तत्समर्पये ॥२३६॥ वदत्येतन्नृपेऽङ्गारमुखः प्राहाऽर्थयस्व भोः ! । चन्द्रशेखरमत्रत्यं, किं विक्रीत प्रियासुतौ ? ॥२३७।। राजाऽऽह किमिदं ब्रूषेऽनुचितं सत्त्वशालिनाम् ? । शतशोऽपि पराभूतान्नाऽहं प्रत्यर्थिनोऽर्थये ॥२३८।। प्रतिज्ञाभ्रष्ट ! वाचाट !, पुरो नः स्वं विकत्थसे । इत्युक्ते मुनिना राजा, प्राह मुनीन्द्र ! मा कुपः ॥२३९।। चण्डालस्याऽपि कर्माऽहं, कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति राज्ञोक्तेऽभूद्रोमाञ्चितो मुनिः ॥२४०॥ ततः कौपीनवासास्तु, लघुपिङ्गकचोच्चयः । दृढयष्टिकरो वृद्धो, निषादः कोऽपि चाऽगमत् ॥२४१॥ राजानं वीक्ष्य स प्रोचे, रे ! त्वं कर्म करोषि किम् ? । कर्मकृद्भवसि त्वं मे, तेनेत्युक्तो नृपोऽस्मरत् ॥२४२॥ रविरस्तङ्गतो लोकः, क्रायको नाऽस्ति नो मुनिः । क्षमते तन्निषादस्य, कुर्वे कर्मेति सम्प्रति ।।२४३॥ १७० चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy