________________
राज्ञोक्तः सचिवस्तस्मै, तापसाय ह्युपानयत् । सोऽपि वीक्ष्य किमेतदित्यप्राक्षीनृपति मुनिः ॥१०४॥ राजाऽऽह वञ्चनास्वर्णं, कुत एतन्मुनिर्जगौ । अथाऽऽख्यन्नृपतिः कोशात्, बहिरन्तः स वा क्षितेः ? ॥१०५।। इत्युक्ते मुनिना राजा, प्राह मध्ये क्षितेर्मुनिः। ब्रूते स्वामी क्षितेः कोऽत्र ?, राजाऽऽह त्वं न चाऽपरः ॥१०६॥ मुनिरूचेस्ततः कोऽयं, प्रकर्षः कौशलस्य ते ? । यन्मदीयेन हेम्ना मेऽनृणीभवितुमिच्छसि ? ॥१०७।। विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः । सकष्टमिव तस्थौ च, स मुनिर्भूभुजाऽर्थितः ॥१०८।। ततो राजा मन्त्रिकर्णे, किमप्याचष्ट मन्त्र्यथ । केनचित्पुरुषेणाऽऽश्वाऽऽजूहवद्वणिजोऽखिलान् ॥१०९॥ मुनिना दिव्याशक्त्या ते, हरिश्चन्द्रे खलीकृताः । सम्भूय मन्त्रयामासुः, स्वामी नोऽतः परं मुनिः ॥११०॥ हरिश्चन्द्रस्य दत्तेन, किं द्रव्येण वृथाऽधुना ? । यो हि स्वामी पुरस्याऽस्य, देयोऽस्माभिः करोऽस्य तत् ॥१११॥ इति मन्त्रयतो मन्त्री, तानूचे रहसि स्थितः । राजा वोऽर्थयते स्वर्णमधमर्णो मुनेः स यत् ॥११२॥ पश्यतस्तान्मिथो वक्त्रं, स्वर्णदानेऽकृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्येत्य, स्वयमर्थयते स्म तान् ॥११३॥ हे पौरा ! वोऽञ्जलिर्बद्धो, दत्तस्वर्णं कियन्मम ? । कुतश्चिदपि याचित्वा, दास्ये वः काञ्चनं पुनः ॥११४।। अल्पद्रव्या वयं स्वर्णलक्षं दातुं न शक्नुमः । इत्यूचिवांसो वणिजो, राज्ञाऽऽऽदिष्टा ययुगृहान् ॥११५।।
सत्यहरिश्चन्द्रकथा ।