________________
इति देवीवरं प्राप्य, सा ददर्श पुरःस्थितम् । जीमूतवाहनं हर्षलज्जामुकुलितेक्षणा ||४५ || तस्याः कण्ठस्थितं पाशबन्धं जीमूतवाहनः । चिच्छेद पाणिना दध्रे, करं पाशाऽपराऽधिनम् ॥४६॥ अत्राऽन्तरे समभ्येत्य, चेटिका तां व्यजिज्ञपत् । दिष्ट्याऽद्य वर्धसे देवि !, प्रस्तुतस्ते महोत्सवः ॥४७॥ त्वद्भ्रात्रा जनकाऽऽदेशादद्य विद्याधरेश्वरः । जीमूतकेतुपुत्रोऽसौ वृतो जीमूतवाहनः ॥४८॥
तदेहि कल्पितोऽद्यैव, विवाहो जनकेन ते । इति श्रुत्वा च सा तूर्णं, प्रययौ चारुहासिनी ॥४९॥ जीमूतवाहनोऽप्याऽऽशु, समेत्य पितुरन्तिकम् । ततो महोत्सवाऽऽनन्दिविद्याधरशताऽनुगः ॥५०॥ परिणीय प्रियतमां, सोऽभूत् सम्भोगतत्परः । कदाचिदथ तद्भ्रात्रा, स मित्रावसुना सह ॥ ५१ ॥
,
चचाल जलधेर्वेलावनाऽन्तमवलोकयन् ।
ददर्श तत्र शिखराऽऽकारं ताराऽस्थिसञ्चयम् ॥५२॥ [ त्रिभिर्विशेषकम् ]
किमेतदिति ? तेनाऽऽशु, पृष्टो मित्रावसुस्ततः । उवाच गरुडेनाऽत्र, भक्षिता भुजगोत्तमाः ॥५३॥
सर्वक्षयभयात्तार्क्ष्यस्ततोऽवासुकिनाऽर्थितः । विसृष्टं तेन वारेण, सदैकं नाऽगमत्यसौ ॥५४॥ अयमस्थिचयस्तेषामद्रिकूटसमुच्छ्रितः । उक्त्वेति जनकाऽऽहूतस्तूर्णं मित्रावसुर्य ॥५५॥ जीमूतवाहनोऽप्येष, सर्पेषु करुणाऽऽकुलः । चचार तत्र संसारं, निःसारं कल्पयन् धिया ॥ ५६ ॥
१४४
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।