SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अथ पूर्णसन्धो राजा, दूतेनोचे रिपूनिति । योद्धं भवत सज्जा भो !, आयाम्येषोऽहमात्मना ॥३२०।। दूतानुपदमेवाऽसौ, चचाल च रिपूनभि । सर्वाऽभिसारभारेण, शेषाऽहेर्नमयन् फणाः ॥३२१।। निसृष्टाऽर्थः स दूतोऽपि, बहिःसैन्यमुपेत्य च । अभीविज्ञपयामास, हरिषेणं निजाऽऽप्तवत् ॥३२२।। किमेतद्भवतारब्धमनात्मनीनमात्मना। आत्मोदयपरज्यानिक्षत्रनीति न वेत्सि किम् ? ॥३२३।। शत्रुदेशो मया ग्रस्त, इति चेतसि मा विधाः । इदं नेपालकूटेन, मिश्रं मन्यस्व भोजनम् ॥३२४॥ सैन्याऽब्धिवेलयैषा पूर्मया प्लाव्यते चेन्मतिः । अगस्त्येन न किं पीतः, सवेलः सरिताम्पतिः ? ॥३२५।। दीपवन्मयि शलभा, द्विषः स्युरिति दृप्यसे । न किं वेत्सि स दीपोऽपि, यन्नियंत्यहिदर्शनात् ? ॥३२६।। देवतादत्तराज्योऽयं, रङ्गशालापतिस्ततः । सर्वथा तव सैन्यानामसाध्योऽस्मन्महीपतिः ॥३२७॥ ततस्त्वं स्वाऽपराधस्य, दण्डं दत्त्वाऽस्य भूपतेः । प्रयाहि स्वस्य संहारमकाण्डे मा वृथा कृथाः ॥३२८॥ भ्रातुर्वियोगसन्धाऽऽत्तॊ, नाऽभ्यागात्त्वां पुरात्पुरा । दृष्टस्वभ्रातृकं सम्प्रत्यायातं पश्य भूपतिम् ॥३२९॥ यदि ते कुपितं दैवं, तद्योद्धं प्रगुणीभव । पूर्ववन्नाऽधुनाऽप्येष, सोढा त्वदुर्नयान् खलु ॥३३०॥ श्रुत्वेति दूतवाक्यानि, तं प्रत्यकृतमत्सरः । हरिषेणश्चुकोपाऽथ, सरित्पुत्राय सिंहवत् ॥३३१॥ हरिषेणश्रीषेणकथा । १२९
SR No.022638
Book TitleChandraprabh Charitram Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages380
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy