________________
उपदुद्राव बाह्यांश्च, तद्देशवासिनो जनान् । प्रवेशनिर्गमं यत्नादरक्षत्पूर्जनस्य च ॥२८४॥ सरित्पुत्रनृपस्याऽथाऽकुर्वतो राजपाटिकाम् । गत्वा विज्ञपयामासुर्नगराऽऽरक्षकास्ततः ॥२८५॥ नाथ ! शत्रुबलाऽम्भोधिर्वल्गदश्वोर्मिसङ्कुलः । अकालप्लावनं कर्तुं, व्यानशे परितः पुरीम् ॥२८६।। पुरीलोकस्तथा नाथाऽऽक्रन्दत्येवाऽतिरोधतः । गोकुलं च यतो नाऽन्तरस्तीह प्रचुरं पयः ॥२८७॥ श्रुत्वेति प्रसरत्कोपकम्पमानाऽधरो नृपः । आदिशद्वप्रयन्त्राणि, ततो वाहयितुं नरान् ॥२८८।। अथ गोपुरद्वारेषु, व्यलब्ध मण्डलेश्वरान् । वप्रे चाऽनपराद्धेषून्, धानुष्कानध्यरोपयत् ॥२८९॥ अहंयुत्वात्तथोपात्तबहिर्गतिनिषेधतः । सौध एव स्थितो राजा, पुरीरक्षापरोऽभवत् ॥२९०॥ प्राकारस्थबहिःस्थानां, भटानामितरेतरम् । ततश्चाऽभूद्द्विधा युद्धं, यन्त्रायन्त्रि शराशरि ॥२९१॥ वप्रयन्त्रप्रतीकारं, विधाप्य सुभटान् निजान् । प्राहिणोद्वप्रपाताय, हरिषेणः स्वयं पुनः ।।२९२।। प्राकारस्थान् शरासारैस्ताडयामास तांस्ततः । लब्धेऽस्मिन्नन्तरे शूरा, वप्रपाते डुढौकिरे ॥२९३॥ चतुर्दिक्षु प्रतोलीषु, निजं बलमढौकयत् । शूराणां क्षिप्रकारित्वं, कार्मणं विजयश्रियः ॥२९४।। ततश्चाऽलब्धप्रसरा, धीरा अपि भयस्पृशः । प्राकाराऽधिकृता राजे, तत्स्वरूपं व्यजिज्ञपन् ॥२९५॥
१२६
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः