________________
अहो ! प्रीतिर्मिथो यूनोरेतयोर्यत् परस्परम् । आशङ्कयाऽमङ्गलं वह्नौ, पेततुः प्रेम यत्प्रभुः ॥५४४॥ एते च स्वजना यूनोरनिर्वाच्या मुदं ययुः । स्वजनाऽऽगमनप्रीतिर्दुःखग्रीष्मघनाऽऽवली ॥५४५।। इत्यानन्दमयं सौख्यमयं धृतिमयं जनम् । वीक्ष्य विद्याधरप्राणदयिते ते ततः स्वयम् ॥५४६॥ आदाय कञ्चुकं प्रीत्या, स्वहस्तेन भुवस्तलात् । पर्यदीधपतां पद्मावतीं तं दिव्यसौरभम् ॥५४७॥ [युग्मम्] ततो विद्याधरीसैन्यैोमवर्त्मनि यायिभिः । भूमार्गगामिभिर्भूपसैन्यैः परिवृतः स तु ॥५४८॥ गन्धसिन्धुरमारूढः, पठ्यमानश्च बन्दिभिः । सोत्तरीयाऽञ्चलोल्लासं, गृह्णन् वृद्धाऽङ्गनाऽऽशिषम् ॥५४९॥ अग्नौ शैत्यकरोच्छ्वासिदृष्टशीलाऽनुभावतः । शीलप्रशस्तिशालिन्या, पद्मावत्या विराजितः ।।५५०॥ मुहुर्वीक्षितुमावृत्तवक्त्रं पुरोगबन्धुभिः । प्रविश्य पुरमुद्भूतसङ्गीतः स्वगृहं ययौ ॥५५१॥ [चतुभिः कलापकम्] सत्कृत्य भूपतिं नानारत्नाऽऽभरणदानतः । यथायोग्यं च सन्तोष्य, राजलोकं धनाऽम्बरैः ॥५५२॥ विद्याध? च सन्मान्य, स्नेहादञ्जलिबन्धतः । आनीतपूर्णपात्रत्वात्, स्वजनान् परिधाप्य च ॥५५३।। याचकेभ्यो धनं दत्त्वा, भोजयित्वा बुभुक्षितान् । आरामतनयः सर्वान्, विससर्ज कृताऽञ्जलिः ॥५५४॥ [त्रिभिर्विशेषकम्] अन्यैरदृश्यमानाच्च, वेतालात्स्वर्णयोगिनम् । तमानाय्य गृहीत्वा च, वेतालं व्यसृजन्मदा ॥५५५।।
आरामनन्दनकथानकम्।