________________
इति वल्लिरसेनैष, लिखित्वा पत्रमात्मना । समर्प्य मर्कटं स्नेहादनुगम्य व्यसर्जयत् ॥४३६।। स्वयं च कञ्चुकोपायव्यग्रचित्तोऽभ्रमद्भुवि । स्वकान्तादर्शनाऽऽसन्नाऽवधि चेतसि चिन्तयन् ॥४३७।। अन्यदा वानरीभूय, क्रीडतो व्यन्तरान् वने । वीक्ष्याऽऽरामसुतोऽपश्यत्तेषां कापेयकौतुकम् ॥४३८॥ तेष्वेको नृपतीभूतो, महान् कालमुखाऽभिधः । सामन्ताऽमात्यपादातपदवानरसेवितः ॥४३९।। अथ कालमुखो राजा, द्वास्थं वानरमादिशत् । तक्षाणमादिश क्षिप्रं, कीलिकाकेकिनिर्मितौ ॥४४०॥ गत्वा द्वास्थोऽपि तक्ष्णे तं, राजाऽऽदेशं समादिशत् । सोऽपि वानरतक्षाऽऽशु, कीलिकाकेकिनोऽकरोत् ॥४४१॥ आश्वाकाशगतीन् कीलप्रयोगात्तान्विधाय सः । गत्वा विज्ञपयामास, तक्षा वानरभूभुजे ॥४४२॥ ततः सोऽवादयद् ढक्कां, यियासुः प्रतिवानरान् । सम्भूयाऽऽजग्मुराश्वेव, सर्वे सन्नह्य वानराः ॥४४३॥ व्यलब्ध केकिनः सर्वान्, वानराणां पृथक् पृथक् । आरूढान् वीक्ष्य तान् राजा, चचालाऽऽरुह्य केकिनम् ॥४४४।। कीलप्रयोगादुड्डीनान्, सजीवानिव केकिनः । तेऽथ वल्गावशादश्वानिवाऽमुञ्चन् यथापथम् ॥४४५।। व्योममार्गे प्रयान्त्येते, केक्यारूढास्तु वानराः । भूमार्गेण दधावे च, तानन्वारामसूस्ततः ॥४४६।। उत्तेरुः काननं प्राप्य, केकिभ्यो वानरास्तु ते । सज्जीबभूवुराश्वेवाऽवस्कन्दायाऽरिकानने ॥४४७।।
८८
चन्द्रप्रभचरित्रे प्रथम परिच्छेदः ।