SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ जिनदत्तकथानकम् इति प्रतिबोधदानेन सर्वेषां चमत्कारमुत्पाद्य धूर्तः शीघ्र स्वस्थानं गतः । ततः श्रेष्ठी लज्जितः प्रियाद्वययुतः स्वगृहं गत इति । तदा सर्वै राजादिभिः भार्याद्वयं निन्दितम् - आः ! एताभ्यां किमकृत्यं कृतम् ?, तन्महापापिन्यावेते इति । विमलमतिः सर्व' कथानकं प्रोच्य वदति स्म – अहो ! वामन ! हे श्रीमति ! विषयसुखलौल्येन ताभ्यां लोकद्वयं यथा हारितम् , इहावर्णवादो जातः परत्र दुर्गतिश्चेति तथा नाहं भवामि, न पुनरहं तद्वद् इहलोकसुखगा न केनापि परावत्यै । अत्रान्तरे सर्वपौरलोकैश्चिन्तितम् – अहो ! अस्या वचनचातुर्यम् , अहो ! शीलनिश्चलता च । श्रीमती विज्जाहरी च द्वे अपि किकर्तव्यतामूढे जाते । 'कथमेषा प्रत्याययिष्यते ?' इति । वामनस्तु स्वकान्तां शीलैकान्तदृढां ज्ञात्वा मनसि मुदितो जातोऽस्ति । [ जिनदत्तकृतं मदोन्मत्तहस्तिवशीकरणम् ] इतश्च राजकुञ्जर आलानस्तम्भं मोटयित्वा भारसहस्रशङ्खलां त्रोटयित्वा, प्रतोली पातयित्वा, शुण्डया बहुजनान् पीडयित्वा सर्वनगरं हतप्रायं करोति स्म । स व्यालः साक्षात्काल इव सर्वजनस्य जातः । ततो बुम्बाकरेण नरेण केनापि राज्ञे प्रोचे - देव ! तव पट्टहस्ती मदोन्मत्तो जातः, तद्भयेन सर्व' पुरं दिशि दिशि नष्टम् । तच्छ्रुत्वा सर्वमुत्थितम् । ततोऽरण्यमिव शून्य रणमुखं पुरं दृष्ट्वा लोकं निजप्राणरक्षार्थ वृक्ष-गिरि-चैत्यादिशिखरारूढं च ज्ञात्वा स्वयमपि राजा बहिर्वने गतो मूढबुद्धिर्दध्यौ – संसारे स एव श्लाघ्यावतारो योऽधुना किकर्तव्यतामूढस्य मम बुद्धि ददाति, किमपरैनरैः । यदुक्तम् - आसन्ने रणरंगे, मूढे मंते तहेव दुब्भिक्खे । जस्स मुहं जोइज्जइ, सु च्चिय जाओ किमन्नेणं ? ॥१२३॥ ततो नृपो बभाषे – भो भो वीराः ! भवतां मध्ये स कोऽप्यस्ति य एनं पट्टहस्तिनं वशवर्तिनं करोति ? परं केनापि कृतान्तदुर्दान्तः कोपाक्रान्तः स गजो न नामितः । ततो राज्ञा पटहवादनपूर्वमित्याघोषयामासे – यः कोऽपि गजमेनं वशमानयति तस्य राजा राज्यार्द्ध मदनमञ्जरी च कन्यां दत्ते । इति पटहोद्घोषणा सर्वत्र कारिता, परं केनापि भयभीतेन जनेन न तत् क मशक्यत । परं 'किमत्र भावि ? सम्प्रत्येव किं कल्पान्तो भविष्यति ?' इति सर्वैर्व्याकुलीभूतम् । 1. आसन्ने रणरङ्गे मूढे मन्त्रे तथैव दुर्भिक्षे यस्य मुखं दयते स खलु जातः, किमन्येन १ ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy