________________
जिनदत्तकथानकम्
कन्यानां तत्पितॄणां लोकानां च हृदि 'कोऽयं ?, किं वदति ? ' इत्यादयो भूयांसो विकल्पा जायमानाः सन्ति ।
२८
,,
अथ तृतीयदिने पूर्वरीत्या समागत्य विज्जाहरी यत्र प्रदेशेऽस्ति तत्र गत्वा वामनो बभाषे – “हे भद्रे ! हे सुन्दरि ! हे विज्जाहरी ! त्वं मां नोपलक्षयसि ?, चतुरिकामध्ये त्वया मम सङ्केतः कथितः, यत् 'पितृपार्श्वात् षोडशविद्या विमानं च याचनीयम् ' तथैव राज्ञोऽग्रे मयोक्ते तत् सर्वं लब्धम्, ततो विद्याबलेनाहमीदृशो जातः " । इत्युक्ते सम्भ्रान्ततया मुखं विलोक्य सा चिन्तयति - सत्यमेवेदम्, विद्यावानेष चिन्तितरूपाणि करोति । ततो विमलमत्यग्रे तया कथितम् - - हे भगिनि ! जिनदत्तोऽयं भवत्येव, विद्याबलेनेदृशो जातः । अथ श्रीमत्या भणितं — हे सखि ! सत्यप्रायमिदं सम्भाव्यते विज्जाहरीपूर्व प्रोक्तवृत्तान्तेन ।
अथ राजादिषु श्रृण्वत्सु विमलमती रोषं कृत्वा जगौ – रे मुग्धे ! मां न कोऽपि विप्रतारयितुं शक्नोति वचनाडम्बरेण यतो न ज्ञायते विद्यासिद्धो नरो देवतादिप्राप्तवरो वा धूर्ती वा कोऽप्येष भावी, तदेनं तदैव मानयामि यदा केवली स्वमुखेन वदति, नान्यथा । इत्थं सर्वसमक्षं सखीद्वयं निर्भर्त्स्य पश्चाद्विमलमत्या वामनो हक्कितः - रे कितव ! त्वयाsबला-बाल-गोपालादयः सर्वे वचनप्रपञ्चवैचित्र्यात् विप्रतारिताः, पुनर्नाहं केनाऽपि विप्रतायें, एष स कपित्थो न हि यो वातेन पतति, रे वामन ! हापाश्रेष्ठिभार्यावद् विषयलौल्येन लोकापवादपापाऽपकीर्तिभाजनं नाहं भविष्यामि । श्रीमत्या पृष्टं – हे भगिनि ! कोऽसौ हापा - श्रेष्ठिवधूसम्बन्धः ? सा भणति यदि कौतुकं तदा श्रूयताम् –
-
प्रतिष्ठानपुरे जितशत्रुर्नाम राजा । तन्नगरमध्ये श्रेष्ठी हापाख्यो वसति, स बहुद्रव्यकोटिपतिरपि कृपणपितामह इव शोभनं न खादति, न पिबति, सत्यपि धने महादरिद्रवद् रुति, न कस्यापि किञ्चिद्दत्ते च ।
यतः
निबफलं ' किवणघणं सायरसलिलं च दूहवारूवं ।
कायरकरि करवालं विहलं विहिणा विणिम्मवियं ॥ ११२ ॥
"कां किज्जइ कृपणह तण, धोइ धवलहरे हिं ।
वर पन्नाडां झुपडां, पहिय अवलंबइ जेहिं ॥११३॥
1. निम्बफलं कृपणधनं सागरसलिलं च दुर्भगारूपं कातरकरे करवाल विफलं विधिना विनिर्मितम् ॥ 2. किं क्रियते कृपणानां धवलैः धवलगृहैः १ वरं पर्णयुक्ताः कुटयः पान्था अवलम्बन्ते यत्र ||