SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ३० तथा - जिनदत्तकथानकम् तथा रणे वने शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि ॥ ८६ ॥ फलकाधारेण स जिनदत्तो जलधि तरन्नस्ति । इतश्च रत्नपुरीनगर्या विज्जाहरो नाम राजा । तस्य चतुरशीतिपत्न्यः । तन्मध्ये अशोकश्रीः पट्टराज्ञी । तत्पुत्री विज्जाहरी नाम कुमारी । पितुरेकैव सा पुत्री, अतोऽतीववल्लभा । अपरं सौभाग्योपरिमञ्जरी यत् शीलालङ्कारिणी सर्वस्त्रीलक्षणधारिणी च तद्रूपाग्रे सर्वदेवाङ्गनाः पदधावने यान्ति । तदुद्वहनाय भूरिशो राजकुमाराः समायान्ति परं साध्वीसङ्गेन संसारसुखविमुखा सा बुद्धया राजानमुत्तरयामास - तात ! मम स एव वरः यो द्वाभ्यां भुजाभ्यां महासमुद्र - मुत्तीर्य समायाति नान्यः, तदभावे दीक्षैवेति मे प्रतिज्ञा । ततो जनकोऽतीवदुःखी जातो दध्यौ - " इदं कार्यमसम्भाव्यमस्त्येव तथाप्युपक्रमं करोमि, कदाचिदघटमानमपि विधिवशाज्जायते । यतः अघटितघटितानि घटयति, सुघटितघटतानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान् नैव चिन्तयति ॥८७॥ विहि विहडावर, विहि घडइ, विहि घडिउं भंजेइ । इमइ लोय तडफडई, जं विहि करइ सु होइ " ॥ ८८ ॥ इति विचार्य पित्रा समुद्रोपकण्ठे तद्वीक्षणाय जना मुक्ताः । कियत्यपि काले गते तटासन्नं जिनदत्तमागच्छन्तं वीक्ष्य ते सर्वे हृष्टा भणन्ति अहो ! पूर्वं कुमार्याः, ततो राज्ञः, ततोऽस्माकमपि च भाग्यं वर्तते, यथेष्टनररत्नप्राप्तिमनोरथसिद्धेः । जिनदत्तश्च तान् वीक्ष्य न विश्वसिति । यतः - मुताहलं " न गिण्हइ तारापडिबिबभोलिओ हंसो । दुज्जणजणेण घट्ठो न वीससइ सज्जणजणस्स ॥ ८९ ॥ 1. विधिर्विघटापयति, विधिर्घटयति, विधिर्घटितं भनक्ति, निरर्थकं लोको व्याकुली भवति यद् विधिः करोति तद् भवति ॥ 2. मुक्ताफलं न गृह्णाति ताराप्रतिबिम्बवञ्चितो हंसः । दुर्जनजनेन घृष्टः = पीडितो न विश्वसिति सज्जन । अत्र सप्तम्यर्थे षष्ठी ज्ञेया ॥
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy