________________
जिनदत्तकथानकम् विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु सिया । कृत्वा कुलक्षयं प्राप नरकं दशकन्धरः ॥७०॥ सीलब्भट्ठाणं पुण नामग्गहणं पि पावतरुबीअं ।
जा पुण तेसिं तु गई को जाणइ ? केवली भयवं ॥७१॥" इत्यादि मनस्येव विचिन्त्य श्रीमती को पिधाय प्रोचे - " हा पाप! वचनमिदमश्रोतव्यम्, पुनरीदृशं वचो मा वादीः, न जाने क्व नरके त्वं यास्यसि ? यतः -
"भक्खणे देवदव्वस्स, परत्थीण य संगमे ।
सत्तमं नरगं जंति, सत्तवारा य गोयमा ! ॥७२॥ तथा 'मम शीलधर्मप्रभावो यदि स्यात् तदा प्रवहणं ब्रडतु' इति तस्याः सत्याः शापेन यानपात्रं दोलायमानं दृष्ट्वा जनो जगौ -- रे दुरात्मन् ! त्वं सर्वमपि समुद्रे मज्जयिष्यसि । सर्वजनाक्रोशं निशम्य भीतः श्रेष्ठी श्रीमतीपादयोः पतित्वा 'मम दुष्टस्य दुष्कृतं क्षमस्व ' इति जगौ। 'हा पापिष्ठ हा अद्रष्टव्यमुख ! मां मा स्पृश, दूरे भव' इति तया धिक्कृतः सः। ततो जनो बभाषे-- मातः ! अस्मान् निरपराधान् रक्ष रक्ष । इति श्रुत्वा सा तत्कृपया स्वकरस्पर्शन प्रवहणं स्थिरीचकार । अहो ! शीलप्रभावः । यतः -
हरति कुलकलक्कं लुम्पते पापपकं, सुकृतमुपचिनोति श्लाध्यतामातनोति । नमयति सुरवर्ग हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ।।७३॥
अथ सा मनस्येवं खिद्यते, यथा - " हा तात ! दैवेन तत् किमपि मम पातितं यद् वक्तुमपि न शक्यते । यतः -
विहिणो वसेण कज्ज जयम्मि तं किंपि दारुणं पडइ ।
जं न कहिउं, न सहिउं, न चेव पच्छाइउं तरइ ॥७४॥ तथा --
अन्न* चितवीइ अन्न हुइ, अन्न कीजइ अन्न थाइ ।
सूइ अन्न मनोरहे, अन्नेरडे विहाइ ॥७५॥ 1. शीलभ्रष्टानां पुनर्नामग्रहणमपि पापतरुबीजम् , या पुनस्तेषां गतिः [तां ] को जानाति ? केवली भगवान् ॥ 2. भक्षणे देवद्रव्यस्य, परस्त्रीणां च सङ्गमे सप्तमं नरकं यान्ति सप्तवारान् च गौतम !॥ 3. विधेर्वशात् कार्य जगति तत् किमपि दारुणं पतति यद् न कथयितुं न सोढुं न चैव प्रच्छादयितुं शक्यते ॥ 4. अन्यत् चिन्त्यते, अन्यद् भवति; अन्यत् क्रियते, अन्यद् भवति; सुप्ते अन्ये मनोरथाः, अन्यतराः प्रभाते ॥