SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ર जिनदत्तनृपस्य धर्मप्रवृत्तिः ऽऽरासपाषाण-ज्योतीरस-चन्दनलेप-प्रभृतिसारपदार्थमयी - ज्योतिर्मयीद्वर्यादिधातुमिश्राः पराः सहस्रा अप्रतिमाश्चतुर्विंशतिजिनप्रतिमा निर्माप्य सोत्सवं प्रतिष्ठाप्य च स्वचैत्यमध्ये सर्वत्र मण्डयति स्म महीमण्डलाखण्डलः । एवम प्रतिबिम्बजिनबिम्बकदम्बं कारयतां महत्फलं भवति, यदुक्तम् प्रत्यासीदति तस्य निर्वृतिपदं स्वर्गस्य किं ब्रूमहे, साम्राज्यं स्वकरस्थमेव विषयाभिख्यं तु सौख्यं ध्रुवम् । येनानन्यसमान पुण्यविभुना निर्मापिता धीमता, रम्याङ्गी त्रिजगत्पतेः प्रतिकृतिः सर्वार्थसंसाधिनी ॥ ३३९ ॥ अथ राजा तल्लीनचित्तश्च त्यालये नियमपूर्व त्रिसन्ध्यमवन्ध्यसमग्र सामग्र्या जिनपतिपूजां निर्माति, यदुक्तम् – चित्रं जगत्त्रयीनाथे संलग्ना कुसुमावली । स्वर्गापवर्गसम्प्राप्तिफलं भव्येषु सम्भवि ॥३४०॥ चान्दनी चर्चना येन तनौ तेने जिनेशितुः । चित्रं तस्य भवग्रीष्माभीष्मतापः क्षयं ययौ || ३४१॥ ― तथा राजा स्वयं सेवकीभूय भूयसीभक्तिर्भगवदङ्गे विविधामङ्गिकां रचयति, यदुक्तम् - पञ्चभिर्वर्णकैर्योऽर्हदङ्गके कुरुतेऽङ्गिकां । स पञ्चविषयान् भुक्त्वा पञ्चमीं गतिमश्नते ॥ ३४२ ॥ तथा शेषामिव जिनाज्ञां शिरसि रसानाथो वहन्नस्ति, यदुक्तम् - जो न कुणइ तुह आणं सो आणं कुणइ तिहुयणस्सावि । जो पुण कुणइ जिणाणं, तस्साऽऽणा तिहुयणे देव ! ।। ३४३ ।। - तथा ज्ञानभक्तिभाग् भूपतिः सर्व सरस्वतीकोशं लेखयामास, यदुक्तम् - तीर्थनाथागमपुस्तकानि, न्यायार्जितार्थैरिह लेखयन्ते । ते तत्त्वतो मुक्ति पुरीनिवासस्वीकारपत्रं किल लेखयन्ति ॥ ३४४॥ शास्त्रं हि तृतीयं लोचनम्, यदुक्तम् - - ये बाह्ये लोचने ताभ्यां बाह्य वस्तु निरीक्ष्यते । अन्तस्तत्त्वेक्षणे किन्तु शास्त्रमान्तरनेत्रति ॥ ३४५॥ 1. यो न करोति तवाज्ञां स आज्ञां करोति वहति त्रिभुवनस्यापि यः पुनः करोति जिनाज्ञां तस्याज्ञा त्रिभुवने देव ! ॥ J-11
SR No.022637
Book TitleJindutta Kathanakam
Original Sutra AuthorN/A
AuthorOmkarshreeji
PublisherJain Atmanand Sabha
Publication Year1978
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy