SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ गद्यचिन्तामणौ स्तत्क्षणमैक्षिषत । महीक्षितस्तु मृगेक्षणाया निःशेषजनकर्णवशीकरणकामणमाकर्ण्य वल्लुकीवादनं वामलोचनेयमनेन विजेतुमिह जगति न केनापि शक्यत इति निश्चित्य निःश्वासैः सह पाणिपीडनाशां मुञ्चन्तः पञ्चशरवञ्चिताः कंचित्कालमानतवदननिवेदितनिजहृदयगतविषादा जोषमासिषत । कतिचित्कन्दलितपरिवादिनीपाण्डित्यमात्मानं मन्यमानाः प्रारभ्य वादयितुं परिवादिनी परिवादमेव फलमलभन्त । एवमुपक्रमसमसमय एव समासादितपराजयलज्जाकजलितहृदयेषु पार्थिवपृथ्वीसुरवैश्येषु विश्रुतविश्वविद्यावैशारद्यविस्मापितजीवको जीवकस्वामी स्वयंवरकृते कृतमण्डनः पितुरनुज्ञापुरःसरमनुसरद्भिरात्मनिर्विशेषैरशेषैः स्वमित्रमित्र इव मयूखैः शतमख इव मखाशनैः शातकुम्भगिरिरिव कुलगिरिभिरधरितविन्ध्यगिरिगरिमाणं गन्धकरिणमधिरुह्य धराधरशिखरनिषण्णं केसरिणमवधीरयन्नधःकृतमदनरूपाभिमानग्रहो निजगृहान्निरगात् । अनन्तरं तदीयलावण्यप्रस्रवणे प्रवहति प्रक्षालयितुमीक्षणयुगलमतिदोहलादहमहमिकया समधिरुह्य सौधमणिवलभीमनुगवाक्षमाहितवदनचन्द्रमसामिन्दीवरदृशाम् 'इन्दुशेखरेण पुरा पुरत्रयेन्धनसमिद्धहुतवहविरोचमाने विलोचने सरभसमदाहि मन्मथ इति वितथमालपति लोकः ! यदयमशेषयोषिदीक्षणचकोरपारणपौर्णमासीचन्द्रकरायमाणकान्तिकन्दलः कामो निकाममानन्दयत्यस्मान् । किमकृत सा सुकृतं पुरा पुरंध्री यास्य प्रत्यग्रघटितघनतरघुसृणपङ्कपटलपाटले वक्षःकवाटे निबिडगैरिकपङ्काङ्किते गिरितटे मयूरीव विहरिष्यति । आस्तामिदमस्तोकमस्य लावण्यम् । प्रावीण्यमपि वीणावादने निद्वितीयमेतदीयम् । आभ्यामखिलभुवनाभिनन्दिताभ्यां विनिर्जिता विजयार्थपतेः सुता नियतमेनं वरिष्यति' इत्येतानि चान्यानि वचास्यवतंसयन्कर्णयोस्तूर्णमुपासरत्परिसरं स्वयंवरसदसः । सदस्याश्च वयस्यैः सह संनिहितमेनमपनीतनिमेषोन्मेषेण चक्षुषा निरीक्षमाणाः क्षणमेणाक्षीपाणिग्रहणम
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy