SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ तृतीयो लम्बः। तिसुकुमारमुदरं दधद्भ्यां पादपल्लवाभ्यां पल्लवयन्ती भुवम् , विषमबाणतूणीरंनिर्माणमातृकानुकाराभ्यामुद्यन्नूपुरविमलमुक्ताफलकरैः स्निग्धबन्धुमनोभिरिव गमनप्रतिबन्धाय गृह्यमाणाभ्यां क्रमवृत्तस्निग्धानतिप्रांशुभ्यां जवाभ्यां भासमाना , न्यकृतराजरम्भाकाण्डाभ्यामूरुस्तम्भाभ्यां घनजघननगराभोगभारमुद्वहन्ती, विलसदमलफेनपटलवलक्षण महता क्षौमेण प्रयाणानुसरणकृते समागतराजतगिरिकिरणजातेनेव कृतपरिष्कारा , तारुण्यसिन्धुपुलिनयोर्जवनयोः सारसविरावाञ्चितां काञ्चीमुदञ्चता करेण तनुतया पतनाभिमुखं मध्यमिव गृह्णतीं धारयन्ती, रोमावलीतमालवनराजीसंवर्धमानामृतसलिलकूपविभ्रमं नाभिमण्डलं बिभ्रती , कमनीयकायकल्पवल्लरीस्थूलस्तबकसंपदौ शौक्तेयहारधरौ पयोधरौ दधती, विलाससमीरसमुल्यापितलावण्यतरङ्गिणीतरङ्गरेखारमणीययोर्भुजलतयोर्विमलाङ्गुलीनखम - यूखमालां पितृपुरस्क्रियाहपुष्पाञ्जलिविधानायेव दधाना , कम्बुकान्तिकएठभूषणमाणिक्याखण्डालोकं बालातपमिव कुचचक्रवाकमिथुनाविश्लेषाय प्रकाशयन्ती , कालाञ्जनपुञ्ज नीलालकबन्धबन्धुरापरभागमपरान्तनिबिडनिविष्टतमःपटलमिवोडुपतिबिम्बं बिम्बारुणोष्ठसंपुटशुक्तिगर्भनिर्भासुरदशनमौक्तिकापीडं ललाटेन्दुनिर्यदमृतधारायमाणनासावंशं विमलांशुजाललऋितकपोलमण्डलमाणिक्यकुण्डलमण्डितश्रवणयुगलमलिचुम्बितविकचकुवलयदीर्घलोचनं बिभ्रमलास्यलासिकाविलासधूलतमाननं बिभ्राणा गन्धर्वदत्ता सत्वरं सादरं च तन्मुखवलितमुखैः सभाजनैर्ददृशे । ततश्च तामुत्तमाङ्गस्पृष्टविसृष्टमहीपृष्ठां तिष्ठन्तीं खेचरेन्द्रः सादरमाश्लिष्य 'पुत्रि , श्रीदत्तेनास्माकं कुलक्रमागता मैत्री । गात्रान्तरस्थं मामेव तावदमुं मन्येथाः । कन्ये , जनकस्तवायं जननी चास्य गृहिणी । गृहाणामुना प्रयाणे मतिम् । अलं कातर्येण । गगनेचराणां राजपुरी किं न भवनद्वारसमा' इति सानुनयं समभ्यधत्त । सापि 'यथाज्ञापयति' इति सबाष्पव
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy