SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रथमो लम्बः । इत्थं पृच्छति पार्थिवे गणधरस्तदृत्तमाख्यातवा राजन्नैष सुरः पुरा नरपतिर्विश्वंभराविश्रुतः । वैराग्येण तृणाय राज्यमतुलं मत्वा विमुच्याशु त त्प्राविक्षत्पदवीं तपोधनगतां गीर्वाणतुल्याकृतिः ॥१४॥ इत्येवं गणनायकेन कथितं पुण्यास्रवं शृण्वतां तज्जीवंधरवृत्तमत्र जगति प्रख्यापितं सारभिः ।। विद्यास्फूर्तिविधायि धर्मजननीवाणीगुणाभ्यार्थिनां वक्ष्ये गद्यमयेन वाङ्मयसुधावर्षेण वाक्सिद्धये ॥ १५ ॥ . अस्ति खलु निखिलजलधिपरिक्षेपविलसदनेकद्वीपकमलकाणेकारूपस्य जम्बूद्वीपस्य दक्षिणभागभाजि भारते खण्डे पुण्डरीकासनायाः क्रीडागृहमिव लक्ष्यमाणः , प्रक्षीणमोहजनितजिनचरणपक्षपातैरक्षु - णमतिमन्दरमथितविद्यासागरसमासादिततत्त्वावबोधसुधारसैरहरहरुपचितसुकृतमुकुलितपरलोकभयैरभ्यागतसंविभक्तविभवविजृम्भमाणवितरणगुणगरिमनिमीलदमरमहीरुहमाहात्म्यैर्ममतामर्थेष्वनाकलयद्भिरात्मचरितापहसितकलिविलसितैरावसद्भिः सद्भिरारोपितगरिमा , दिशिदिशि दृश्यमानकनकमयविमानतिलकितवियन्मध्यानपरयमधनाध्युषित वेदिकोपशो - भिताशोकपादपच्छायालङ्घनचकितभव्यलोकवक्रितप्रदक्षिणभ्रमणैः परहितनिरतमुनिवरपरिषदभिहितधर्मानुकथनकर्मठशुककुलवाचालोद्यानशाखिशाखापरिष्कृतपरिसरैरुपसरत्संसृतेरुपरतिमुपजनयद्भिर्जिनालयैरुपशेभितः, सततविनिहितसलिलसेकजनितशैत्यविनिर्गतपुलकतुलितमुकुल - दन्तुरितेन वहदनिलकम्पितैर्विटपबाहुभिरतिदुर्धरं फलभरं दातुमाह्वयतेत्र प्रत्यग्रकन्दलादलनदुर्ललितकोकिलकलालापच्छलेन मनसिजविजयभोगावलीमिव पठता सहकारतरुषण्डेन कृतमण्डनैर्मधुकरनि
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy