SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ गद्यचिन्तामणिः। प्रथमो लम्बः । श्रियः पतिः पुष्यतु वः समीहितं त्रिलोकरक्षानिरतो जिनेश्वरः । यदीयपादाम्बुजभक्तिशीकरः सुरासुराधीशपदाय जायते ॥ १॥ प्रणम्रगीर्वाणकिरीटभानुभिः प्रफुल्लपादाम्बुरुहान्गणेश्वरान् । प्रणौमि येषां स्तुतिरेव भारती कवित्वशक्तयै भुवि कल्पते नृणाम् ॥२॥ आतिस्थिरं स्वस्य पदं मनोगृहे स धर्मचिन्तामणिरातनोतु मे । यदाश्रिताः शाश्वतसंपदं बुधाः श्रयन्ति भव्या गतसंसृतिश्रमाः ॥३॥ अशेषभाषामयदेहधारिणी जिनस्य वक्राम्बुरुहाद्विनिर्गता । सरस्वती मे कुरुतादनश्वरी जिनश्रियं स्यात्पदलाञ्छनाञ्चिता ॥ ४ ॥ सरस्वतीस्वैरविहारभूमयः समन्तभद्रप्रमुखा मुनीश्वराः । जयन्तु वाग्वज्रनिपातपाटितप्रतीपराद्धान्तमहीध्रकोटयः ॥ ५ ॥ श्रीपुष्पसेनमुनिनाथ इति प्रतीतो दिव्यो मनुर्मम सदा हृदि संनिदध्यात् । यच्छक्तितः प्रकृतिमूढमतिर्जनोऽपि वादीभसिंहमुनिपुंगवतामुपैति ॥ ६ ॥ स्नेहप्रयोगमनपेक्ष्य दशां च पात्रं . धुन्वंस्तमांसि सुजनापररत्नदीपः । मार्गप्रकाशनकृते यदि नाभविष्य सन्मार्गगामिजनता खलु नाभविष्यत् ॥७॥
SR No.022636
Book TitleGadya Chintamani
Original Sutra AuthorN/A
AuthorVadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
PublisherMadras
Publication Year1902
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy