________________
षष्ठो लम्बः ।
१०१
स एष संतोषतनुर्जिनो नः संसारतापं शकलीकरोतु ॥' इति ।
तावदवञ्चितया तदीयभयभक्तिकुञ्चिकयैव श्रीकवाटे स्वयं झटिति विघटिते, तदवलोक्य निकटवर्ती मर्त्यः कश्चिदाहितात्याहितभरः प्रीतिविस्फारितनेत्रद्वयेन शतपत्राञ्जलिमिव पवित्रकुमारस्य पातयन्नस्य पादयोः पपात । तमवलोक्य लोकज्ञः कुमारोऽपि नात्यादरं दर्शितदशनज्योत्स्नया कृत्स्नमस्याङ्गमालिम्पन् ‘कोऽसि । कुतस्त्यः । कस्मादस्मत्पदयोस्तव पतनम्' इत्यपृच्छत् । स च तद्वचोलाभेन लब्धमहाप्रसाद इव बद्धाञ्जलिरित्थं निजगाद— “स्वामिन् , इतः क्रोशमात्रान्तरितप्रदेशनिवेशितो वेशवाटिकेति विटैः , विद्यामठिकेति विद्यार्जनोत्सुकैः , विपणिवीथीति वणिग्भिः , आतिथेयनिवास इत्यतिथिभिः , भोगभूरिति भोगापेक्षिभिः , आस्थायिकेत्यास्तिकैः, गिरिदुर्ग इति क्षेमाथिभिः सेव्यः क्षे. मपुरी नाम जननिवेशः । तत्र च प्रजापतिरधःपातिताखिलपृथिवीपतिः सुरपतिदेशीयो नरपतिदेवो नाम । तस्य च राजश्रेष्ठस्य श्रेष्ठिपदप्राप्तः स्पर्शनशीलत्वेऽप्यकल्पितप्रदायित्वेन कल्पशाखिनं प्रज्ञाशालित्वेऽपि क्षमास्पदत्वेन बृहस्पतिमाढ्यत्वेऽप्यनुत्तरकाष्टाश्रितधनिकतया धनदमप्यधःकुर्वन्सर्वगुणभद्रः सुभद्रो नाम । तस्माच्च तेजोधाम्नश्चन्द्रादिव चन्द्रिका पद्माकरादिव पद्मिनी पयःपयोधेरिव पङ्कजासना काचिदङ्गजा समजनि। सा चेन्दुमुखी बन्धुजनप्रमोदेनाभिवृद्धा सांप्रतं प्रावृडिवोद्भिन्नपयोधरा सरांसि पित्रोर्मनसी कलुषयत्याकर्षयति च युवशिखण्डिनः । दैवज्ञास्तु तज्जन्मदिवस एव एतज्जिनभवनद्वाराररपुटस्य स्वयं विघटनं निकटगते यस्मिजाघटीति प्रकटितानुभावस्य तस्येयं पाणिगृहीती' इत्यभाणिषुः । अहमपि तस्य विश्रुतमहिम्नो वैश्यपतेश्चक्षुष्यः कोऽपि भुजिष्यः । ततः प्रभृति तन्नियुक्तोऽत्र निवसन्नहं निर्वासितहृच्छल्यं प्रतीक्ष्य जगत्प्रतीक्ष्यं भवन्तं हृदयप्रभवदानन्दप्राग्भारेण प्रणतवान्" इति प्रणिगदन्नेव वणिजां कर्ण