SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ॥६॥ प्रथितसुकृतचन्द्रः भाग्यसौभाग्य चन्द्रः, __ समितिसुमतिचन्द्रः गुप्तिगुप्तकचन्द्रः । व्रतरतमतिचन्द्रः ज्ञातषड्द्रव्यचन्द्रः, स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः नयसमुदयचन्द्रः सत्यनिक्षेपचन्द्रः, सदयहृदयचन्द्रः प्राणिकारुण्यचन्द्रः । विषयविहतिचन्द्रः भव्यकार्यार्थचन्द्रः, स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः जितपरिसहचन्द्रः लुप्तषड्वर्गचन्द्रः, दमितकरणचन्द्रः दोषनिर्मुक्तचन्द्रः । प्रकृतिसुभगचन्द्रः धर्मकर्मज्ञचन्द्रः, स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः श्रुतिशुचिरुचिचन्द्रः स्फूर्तिसत्कीर्तिचन्द्रः, नतपदनृपचन्द्रः पूर्णयोगीन्द्रचन्द्रः । कृतनुतिजिनचन्द्रः तत्प्रतिष्ठाद्यचन्द्रः, स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः नेत्राष्टरत्नविधुवर्षमिते तपस्ये, ख्यातेऽत्र राजनगरे भुवि गुर्जरस्थे । अस्याष्टकं शिवमिदं धनचन्द्रसूरेदद्याद् 'गुलाबविजयो' वदतीति सत्यम् ॥७॥ ॥८॥ ॥९॥
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy